________________ 217 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः दशानामेकाद्यपेक्षम् / एवं अधिकविंशा इत्यनेन एकविंशतिः द्वाविंशतिः यावदष्टाविंशतिः / अत्राप्यधिकत्वं विंशतीनामेकाद्यपेक्षम् / एवं अधिकत्रिंशाः एकत्रिंशदादयः / अध्यर्द्धविंशाः-त्रिंशत् / एवं अध्यर्द्धत्रिंशाः चत्वारिंशत्' 40 / अध्यर्द्धचत्वारिंशाः पञ्चाशदित्यर्थः / पञ्चन् / पञ्चानां पूरणः पञ्चम्: 'नो मट्' (7 / 1 / 159) इति सूत्रेण मट् / 'नोऽपदस्य तद्धिते' (7 / 4 / 61) इति न् लोपः / स्त्री चेत् पञ्चमी / 'अणजेये०' (2 / 4 / 20) इति ङीः / अर्द्धपञ्चमी यासां ता अर्द्धपञ्चमाः ‘पूरणीभ्यस्तत्प्राधान्येऽप्' (7 / 3 / 130) इति सूत्रेण अप् समासान्तः ‘अवर्णेवर्णस्य' (7 / 4 / 68) इति सूत्रोक्तयुक्तया इलोपः / अर्द्धपञ्चम इति शब्दः / ततोऽर्द्धपञ्चमा विंशतयो येषां तेऽर्द्धपञ्चमविंशाः नवतिः 90 / ' पञ्चमीशब्दः पूरणप्रत्ययान्तः / तस्य पूर्वपदं अर्द्धमिति ज्ञेयम् / सन्निकृष्टाः कोऽर्थः ? आसन्ना दश येषां ते / अत्र ‘प्रमाणीसङ्ख्याड्डः' (7 / 3 / 128) इति डो न भवति / प्रतिपदोक्तस्य बहुव्रीहेरभावात् / 'एकार्थं चानेकं च' (3 / 1 / 22) इति सामन्येन बहुव्रीहिसमासोऽयम् // 20 // __ अव्ययम् // 3 // 1 // 21 // अव्ययं नाम सङ्ख्यांवाचिनाम्ना ऐकायें समस्यते / द्वितीयाद्यन्यार्थे सङ्ख्येये वाच्ये / स च बहुव्रीहिसमासः (स्यात् ) / उप समीपे दश येषां ते उपदशाः-नव एकादश वा / योगविभाग उत्तरार्थः // 21 // अ० एवं उपविंशाः (19 / 21), उपत्रिंशाः (29 / 31) // 21 // ... एकार्थं चानेकं च // 3 // 1 // 22 // एकमनेकं चैकार्थं नाम अव्ययं च नाम्ना द्वितीयाद्यन्तस्यान्यस्य पदस्यार्थे समस्यते / स च बहुव्रीहिसमास. संज्ञः स्यात् / आरूढवानरो वृक्षः / ऊढरथोऽनड्वान् / उपहृतबलियक्षिणी] / भीतशत्रुर्नृपः / चित्रगुश्चैत्रः / के सब्रह्मचारिणोऽस्य [व्रताचारपाठसहायिनो नरस्यः] किंसब्रह्मचारी / वीरपुरुषो ग्रामः // अनेकं च [बहुपदैः सह समासः / आरूढा बहवो वानरा यं सः] आरूढबहुवानरो वृक्षः। ऊढबहुरथोऽनड्वान् / एवं पञ्चगवधनः / इत्यादि। अव्ययम् / उच्चैर्मुखः / नीचैर्मुखः / कर्तुकामः / अस्ति क्षीरमस्या अस्तिक्षीरा गौः / एकार्थग्रहणं किम् ? पञ्चभि-र्भुक्तमस्य / बहुलाधिकारात् राजन्वती भूरनेन / प्राग्ग्रामोऽस्मात् / पञ्चभुक्तवन्तोऽस्येत्यादिषु (न); बहुव्रीहिः (न भवति) // 22 // - अ० 'नाम नाम्नैकार्थ्ये समासो०' (3 / 1 / 18) इत्यनेन विवक्षितसङ्ख्यत्वादनेकस्य समासो न स्यादिति अनेकग्रहणं सूत्रे कृतम् / एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थं समानाधिकरणम् / आरूढो वानरो यं वृक्षं स आरूढवानरः / ऊढो रथो येनानडुहा स ऊढरथः / अपहृतो ढौकितो बलिरस्यै यक्षिण्यै सा उपहृतबलिः / भीताः / कम्पिताः शत्रवो यस्मात् नृपात् स भीतशत्रुः / चित्रा गावो यस्य चैत्रस्य स चित्रगुश्चैत्रः / वीराः पुरुषाः सन्त्यस्मिन् ग्रामे वीरपुरुषको ग्रामः; इति द्वितीयाविभक्त्यादीनामन्यपदस्यार्थे यथाक्रमं समासः / उच्चैः शब्दादि अव्ययस्य अद्रव्यवाचित्वात् मुखशब्दस्य च द्रव्यवाचित्वादिति भिन्नाधिकरणत्वात् अव्ययशब्दस्य मुखादिना सह समासो न प्राप्नोति इति सूत्रे ‘एकार्थं चानेकं च' इत्यत्र चकारोऽव्ययानुकर्षणार्थः कृतः इति / भिन्नाधिकरणे कोऽर्थः ? व्यधिकरणेऽपि समासं दर्शयति / यथा उच्चैर्मुखमस्य उच्चैर्मुखः / नीचैर्मुखमस्य (नीचैर्मुखः) / कर्तुं कामोऽभिलाषाऽस्य कर्तुकामः / अस्ति विद्यमानं क्षीरमस्या अस्तिक्षीरा गौः / पञ्च गावो धनमस्य पञ्चगवधनः इति वाक्ये 'गोस्तत्पुरुषात्' 1. (पञ्चचत्वारिंशत् 45) 2. (षष्टिः 60) 3. श्च /