________________ 216 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते त्वादेकपदत्वं च / अत एव एकपदत्वेऽव्ययत्वे वा सति अथो अनुव्यचलद्वो देवदत्तः / अथो अनुव्यचलद् युष्माकं देवदत्तः / अत्र ‘सपूर्वात् प्रथमान्ताद्वा' (2 / 1 / 32) इत्यनेन विकल्पेन वस् नस् सिद्धः / / 18 / / सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः // 3 // 1 // 19 // [सुच् च वा च सुज्वौ तयोरर्थः तस्मिन्] सुचोऽर्थो वारः / वाऽर्थो विकल्पः संशयो वा / सुज्वार्थे वर्तमानं सङ्ग्यावाचि नाम सङ्ख्येये वर्तमानेन सङ्ख्यावाचिना नाम्ना सहैकार्थ्ये समाससंज्ञं बहुव्रीहिसंज्ञं च स्यात् / [समस्यते इति योगः] द्विदशाः त्रिदशाः द्विविंशाः [नराः] द्वित्रा त्रिचतुराः पञ्चषाः / सुज्वार्थ इति किम् ? द्वावेव न त्रयः / संख्या इति किम् ? गावो वा दश वा (संख्यया इति किम् ? दश वा गावो वा) / सङ्ख्येये इति किम् ? द्विविंशतिर्गवाम् / बहुव्रीहिप्रदेशा ‘वा बहुव्रीहेः' (2 / 4 / 5) इत्यादयः // 19 // ___ अ० द्विर्दश त्रिर्दश इति वाक्ये द्विदशाः त्रिदशाः / द्वौ वा त्रयो वा इति वाक्ये द्वित्राः / त्रयो वा चत्वारो वा इति वाक्ये त्रिचतुराः / पञ्च वा षड् वा इति वाक्ये द्विविंशाः / एवं त्रिर्विंशतिस्त्रिविंशाः / सर्वत्र ‘प्रमाणीसङ्ख्याड्डः' (7 / 3 / 128) इति सूत्रेण डप्रत्ययः / 'विंशतेस्तेर्डिति' (7 / 4 / 67) इति सूत्रेण विंशतिशब्दस्य तिकारस्य लोपः / ततः सर्वत्र प्रथमाजस् / 'अत आः स्यादौ०' (1 / 4 / 1) इत्यनेन दीर्घः / द्विर्दश इति वाक्ये सुजर्थस्य समासेनैवाभिहितत्वात् सुचोऽप्रयोगः / त्रिचतुरा इत्यत्र त्रयो वा चत्वारो वा इति वाक्ये 'नसुव्युपत्रेश्चतुरः' (7 / 3 / 131) इति सूत्रेण अप् समासान्तः / पश्चात् जस् / ‘अत आः स्यादौ०' (1 / 4 / 1) इति दीर्घः // 19 // आसन्नादूराधिकाध्यर्द्धा दिपूरणं द्वितीयाद्यन्यार्थे // 3 // 1 // 20 // आसन्न अदूर अधिक अध्यर्द्ध इत्येतानि [पदानि] अर्द्धशब्दपूर्वपदं च पूरणप्रत्ययान्तं नाम सङ्ख्यानाम्ना सहैकार्थे सति समस्यते / द्वितीयाद्यन्तस्यान्तस्य पदस्यार्थे सङ्ख्येयरूपे वाच्ये / [अभिधेये सति] स च समासो बहुव्रीहिसंज्ञः स्यात् / आसन्ना दश दशत्वं येषां येभ्यो वा ते आसन्नदशाः [प्रमाणीसङ्ख्याडुः' (7 / 3 / 128) जस्] / नव एकादश वा / एवमासन्नविंशा इत्यादि / अदूरदशाः अदूरविंशाः / अधिका दश येभ्यो येषु वा ते अधिकदशाः-एकादशादयः / एवमधिकविंशाः एकविंशत्यादयः इत्यादि / अध्यर्द्धा विंशतिर्येषां ते अध्यर्द्धविंशाःत्रिंशदित्यर्थः / अर्द्धपश्चमा विंशतयो येषां ते अर्द्धपञ्चमविंशाः-नवतिरित्यर्थः / अर्द्धचतुर्थविंशाः-सप्ततिः। अर्द्धतृतीयविंशाः-पञ्चाशत् / आसन्नादिग्रहणं किम् ? सन्निकृष्टदशानः / पूरणस्यार्द्धपूर्वत्वविशेषणं किम् ? पञ्चमी विंशतिर्येषां ते पञ्चमीविंशतयः। द्वितीयाद्यन्यार्थ इति किम् ? आसन्ना दश, अधिका दशभिः // 20 // अ० पूरणं कोऽर्थः / पूरणप्रत्ययान्तं पदमभिधेयत्वेनास्यास्तीति 'अभ्रादिभ्यः' (7 / 2 / 46) इति सूत्रेण अप्रत्ययः / अर्धशब्द आदि पूर्वं यस्य सोऽर्धादिः / अर्द्धादिश्चासौ पूरणश्च अर्द्धादिपूरणः / सूत्रे नाभशब्दापेक्षया क्लीबत्वम् / नाम कीदृशम् ? आसन्नादूराधिकाध्य ‘दिपूरणं प्रथमा सिः ‘अतः स्यमोमम्' (1 / 4 / 57) / द्वितीया आदिर्यासां विभक्तीना ता द्वितीयादयो विभक्तयः / द्वितीयादयश्च तत् अन्यच्च, कोऽर्थः ? अन्यपदं च / . द्वितीयाद्यन्यार्थः / तस्मिन् / आसन्नविंशा इत्यादि / आसन्ना विंशतिर्येषां ते आसन्नविंशाः / 'प्रमाणीसङ्ख्याड्डः' (7 / 3 / 128) इति डः / 'विंशतेस्तेर्डिति' (7 / 4 / 67) इति तेर्लोपः / एकोनविंशतिरेकविंशतिर्वा इत्यर्थः / एवमासन्नत्रिंशाः - एकोन-त्रिंशद् एकत्रिंशद्वा इत्यर्थः / अधिकदशा इति शब्देन एकादश द्वादश त्रयोदश एवं यावदष्टादश / अधिकत्वं