________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः प्रदर्यते-कुम्भस्य समीपं कुम्भं करोतीति / लक्षणं चेदम् अधिकारश्च / तेन बहुव्रीह्यादिविशेषसंज्ञाभावे यत्र एकार्थता दृश्यते तत्रानेनैव समाससंज्ञा भवति / विस्पष्टपटुः इत्यादिषु गुणविशेषणस्य गुणवचनेन मह समासः। दारुणआध्यायकः अद्भुताध्यायकः इत्यादिषु क्रियाविशेषणस्य क्रियावता समासः / सर्वचर्मीणो रथः इत्यादिषु तद्धितार्थे समासः / कन्ये इव इत्यादिषु इवेन सह अलुक्समासः / ऐकपयं च समासफलम् / भूतपूर्वः दृष्टपूर्वः श्रुतपूर्वः सर्वेषु चैषु विशेषसञ्ज्ञाऽप्राप्तौ अनेनैव समासः / नाम इति किम् ? चरन्ति गावो धनमरूप / नाम्नेति किम् ? चैत्रः पचति / बहुलमिति वचनादेव कचिदनामापि समस्यते-भात्यर्क नभः / कचिदनाम्नापि-अनुव्यचलत् अनुप्रावर्षत् / समासप्रदेशा 'वौष्ठौतौ समासे' (1 / 2 / 17) इत्यादयः // 18 // ___ अ० ऐकायें इति / एकः समानोऽर्थोऽधिकरणं यस्य तत् एकार्थम्, / एकार्थस्य भावः ऐकार्थ्यम् / कोऽर्थः ? / समानाधिकरण्यम् / क्वचित् कोऽर्थः ? यत्र कुत्रचित् सर्वाणि पदानि सत्त्वाभिधायीनि भवन्ति / यत्र तु एकं पदं असत्त्वार्थाभिधायि भवति / लक्षणं चेदम् इत्यादि इदं 'नाम नाम्ना०' इति सूत्रं लक्षणं ज्ञातव्यम् / यस्य समासस्य अन्यल्लक्षणं नास्ति तस्य इदं लक्षणम् / तेन विस्पष्टादीनि गुणविशेषणानि पदानि गुणवचनेन पट्वादिपदेन सह समस्यन्ते / विस्पष्टं पटुः विस्पष्टपटुः इति / ___ तथा अधिकारोऽपि सूत्रमिदम् / अधिकारस्तावत् देवदत्तः पचतीत्यादौ विशेषणसमासनिवृत्त्यर्थः / अन्यथा हि पचतीत्यनेन कर्तृसामान्यं यदुपात्तं तद्देवदत्त इत्यनेन कर्तृविशेषणेन विशेष्यत इति सामानाधिकरण्येन विशेषणविशेष्यभावोऽस्ति / नञित्यादावुत्तरपदानुपादाने उत्तरपदोपस्थापनार्थश्च / विस्पष्टपटुरित्यादिषु विस्पष्टं पटुर्विस्पष्टपटुः / एवं विचित्रं कटुको विचित्रकटुकः, विविक्तं कषायो विविक्तकषायः विविक्तकषायत्वमस्तीत्यर्थः। व्यक्तं लवणो व्यक्तलवणः / निपुणपण्डित-कुशलदक्ष-चपलवत्सल इत्याद्युदाहरणेषु गुणविशेषणस्य विस्पष्टतादिरूपस्य गुणवचनेन पट्वादिरूपेण सह समासः / पट्वादयः शब्दाः पाटवादिगुणयोगात् मुख्यतया गुणिनि वर्तमाना अपि गौणतया पाटवादावपि वर्त्तन्ते / दारुणं यथा भवति एवमध्यायको दारुणाध्यायकः / अद्भुतं यथा स्यादेवमध्यायकः अद्भुताध्यायकः / आदिशब्दात् अनाज्ञाताध्यायकः भृशाध्यायकः परमाध्यायकः स्वध्यायक इति / भूतः पूर्वं भूतपूर्वः, दृष्टः पूर्व दृष्टपूर्वः, श्रुतः पूर्वं श्रुतपूर्वं सर्वत्र 'नाम नाम्ना०' इत्यनेन समासः / उत्तरपदेन अनाम्नापि सह सर्व. चर्मन्. सर्वश्चर्मणा [सर्वकृतः केन चर्मणा इत्यर्थः] कृत इति वाक्ये 'सर्वचर्मण ईनेनौ' (6 / 3 / 195) इति सूत्रेण इन् / 'नोऽपदस्य तद्धिते' (7 / 4 / 61) इति नलोपः / यत्र च ईनञ् तत्र सार्वचर्मीण इति सिद्धम् / अत्र सर्वशब्दस्य कृतापेक्षस्य चर्मशब्देन सहाऽयोगेऽपि 'नाम नाम्ना०' इत्यनेन समासः / आदिशब्दात् अद्यश्वीना गौः, दशैकादशिकः अर्ध्वमौहूर्तिकम् कृतपूर्वीकटम् इत्यादि / अद्य. श्व. अद्य श्वो वा विजनिष्यमाणा इति वाक्ये 'समांसमीनाऽद्यश्वीनाद्यप्रातीनागवीनसाप्तपदीनम् (7 / 1 / 105) इति सूत्रेण ईन / अद्यश्वीना गौश्चेत्यासन्नप्रसवा गौरित्यर्थः / तथा दशभिरेकादश गृह्णाति इति वाक्ये 'दशैकादशादिकश्च' (6 / 4 / 36) इति सूत्रेण इक / तथा ऊर्ध्वं मूहर्ताद्भवं ऊर्ध्वमौहूर्तिकम् / 'अध्यात्मादिभ्य इकण्' (6 / 3 / 78) इत्यनेन इकण् / एषु सर्वत्र 'नाम नाम्ना०' इत्यनेन तद्धितवृत्त्यां समासः / कन्ये इव, दम्पती इक, रोदसी इव इत्यादिषु इवशब्देन अलुप्समासः / भात्यर्कोऽत्र नभसि (आकाशे) तद्भात्यर्कं (नभः) / नभसा सह सामानाधिकरण्यं समासफलं ज्ञेयम् / अनुव्यचलत् इत्यादि, अनु वि अग्रे अचलत् इत्यादियुक्त्या सर्वत्र 'नाम नाम्ना०' इत्यनेन समासः / समासफलं हि ऐकपद्यम् हेतोः 'हस्वोऽपदे वा' (1 / 2 / 22) इति सूत्रोक्तसन्धेरप्रवृत्तेर्नित्यं यत्वादिसन्धिकार्यं प्राप्तम् / अथवा अनुव्यचलदित्यादिकं अखण्डं अव्ययं विभक्त्यन्त