________________ 214 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते ['ऊर्याद्यनुकरण.' (3 / 1 / 2) इत्यनेन गतिसंज्ञा] // 13 // साक्षादादिश्ळ्य र्थे // 3 // 1 // 14 // साक्षादादिशब्दाः व्यर्थे वर्तमानाः कृग्योगे गतिसंज्ञा वा स्युः / धातोः प्राक् (एव प्रयुज्यन्ते)। साक्षात्कृत्य साक्षात्कृत्वा-असाक्षाद्भूतं साक्षाद्भूतं कृत्वेत्यर्थः / एवं मिथ्याकृत्य मिथ्याकृत्वा / व्यर्थ इति किम् ? यदा साक्षाद्भूतमेव किञ्चित्करोति तदा साक्षात्कृत्वा इत्येव भवति / अर्थग्रहणात् च्च्यन्तशब्दानां तु न विकल्पः, ऊर्यादिसूत्रेण नित्यमेव गतिसंज्ञा / यथा लवणीकृत्य // 14 // अ० साक्षात् / मिथ्या / चिन्ता [मानसिको व्यापारः] भद्रा रोचना लोचना [भद्रादित्रयः प्रशंसायाम्] अमा सहार्थे आस्था [आदरप्रतिज्ञयोः] अग्धा प्राजर्या प्राजुरा प्राजरुहा बीजर्या बीजरुहा; अग्धादिशब्दाः षट् शोभायाम् / (प्राजर्षेति रहःसमवायसंयोगसामर्थेषु बीजबीजरुहेति प्रसवनेऽपि) संसर्पा [प्रयोजनसंवरणयोः] / अर्थे / अग्नौ तैक्ष्ण्ये / वशे अस्वातन्त्र्ये / विकपने प्रकपने द्वौ वैरूप्ये / विसहने / प्रसहने / अर्थेप्रभृतयः सप्तशब्दाः स्वभावान्निपातनाद्वा सप्तम्येकवचनान्तप्रतिरूपकाः / लवणम् रुच्यर्थे / उष्णम् अनादरे अभिभवे / शीतम् / उदकं क्लेदे द्रवे च / आर्द्रम् सोदकाभिनवयोः / लवणादिपञ्चशब्दानां 'साक्षादादी'ति सूत्रेण गतिसंज्ञासंयोग एव मान्तत्वं निपात्यते नान्यथा / प्रादुस् आविस् नमस् / इति साक्षादादिगणः / / 14 / / नित्यं हस्तेपाणावुद्वाहे // 3 // 1 // 15 // हस्ते-पाणी-शब्दो सप्तम्येकवचनान्तप्रतिरूपकावव्ययौ उद्वाहे विवाहेऽर्थे कृग्योगे गतिसंज्ञौ नित्यं भवतः [नित्यग्रहणात् वानिवृत्तिः] // धातोः प्राक् (एव प्रयुज्येते) / हस्तेकृत्य पाणौकृत्य भार्या कृत्वेत्यर्थः / उद्वाह इति किम् ? हस्ते कृत्वा कार्षापणं गतः // 15 // . प्राध्वं बन्धे // 3 // 1 // 16 // प्राध्वम्-शब्दोऽव्ययमानुकूल्यार्थो बन्धे गम्यमाने कृग्योगे गतिसंज्ञः स्यात् / धातोः प्राक् च (प्रयुज्यते)। प्राध्वंकृत्य / बन्धनेनानुकूल्यं कृत्वेत्यर्थः / बन्ध इति किम् ? प्राध्वं कृत्वा शकटं गतः // 16 // __ अ० प्राध्वं कृत्वा शकटं गत इत्यत्र प्र. अध्वन्. प्रगतमध्वानं इति वाक्ये 'उपसर्गादध्वनः' (7 / 3 / 79) इति सूत्रेण अत्समासान्तः 'नोऽपदस्य तद्धिते' (7 / 4 / 61) इति सूत्रेण नकारलोपः / ततोऽम् / 'अतः स्यमोऽम्' (1 / 4 / 57) / / 16 / / जीविकोपनिषदौपम्ये // 3 // 1 // 17 // जीविका-उपनिषद्-शब्दावौपम्ये गम्यमाने कृग्योगे गतिसञौ (भवतः) धातोः प्राक् प्रयुज्यते / जीविकाकृत्य / उपनिषत्कृत्य / जीविकामिव उपनिषदमिव कृत्वेत्यर्थः // 17 // अ० जीविका जीवनोपायः / (उपनिषदिव) रहस्यमिव / / 17 / / नाम माम्नैकार्थं समासो बहुलम् // 3 // 1 // 18 // नाम नाम्ना सह ऐकार्ये एकार्थीभावे सति समाससझं भवति, बहुलम् / ऐकायं च सामर्थ्य विशेषः / स च पृथगर्थानां पदानां कचित्परस्परापेक्षालक्षणं सामर्थ्यमनुभूय भवति-यथा राज्ञः पुरुषो राजपुरुषः / नीलं च तत् उत्पलं च नीलोत्पलम् / कचिदननुभूयैव भवति-यथा उपकुम्भम् कुम्भकारः / वाक्यान्तरेण त्वर्थः