________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 213 भावः / ‘नमस्पुरसो०' (2 / 3 / 1) इत्यनेन स् / पूर्वपर्यायः पुरः शब्दः / अस्तं शब्दोऽदर्शने / पुर् अग्रे शस् // 7 // गत्यर्थवदोऽच्छः // 3 // 18 // अच्छेत्यव्ययं गत्यर्थधातोर्वदश्च धातोः सम्बन्धि गतिसंज्ञं स्यात् / धातोः प्राक् [एव प्रयुज्यते] / अच्छगत्य अच्छव्रज्य / अच्छोद्य // 8 // ___अ० अच्छशब्दोऽभिशब्दार्थे दृढार्थे वर्त्तमानोऽव्ययम् / अच्छो निर्मलादौ वर्त्तमानो न अव्ययं न गतिसंज्ञश्च / अच्छशब्दोऽभिशब्दार्थे गतिसंज्ञो भवति // 8 // तिरोऽन्तौ // 3 // 19 // तिरस् [अव्ययं] अन्तझै व्यवधाने वर्तमानो गतिसंज्ञः स्यात् / धातोः प्राक् [एव प्रयुज्यते] / तिरोभूय / तिरोधाय / अन्तर्द्धाविति किम् ? तिरो भूत्वा स्थितः / तिर्यग्भूत्वेत्यर्थः // 9 // अ० तिरस् अन्त:-व्यवधाने, तिर्यग्भो च वर्त्तते / अन्तद्धौ तिरस् गतिसंज्ञः / तिर्यग्भावे गतिसंज्ञो न भवति / व्यावृत्तिश्च तिर्यग्भावविषया ज्ञेया // 9 // - कृगो नवा // 3 // 1 // 10 // तिरस् शब्दोऽन्तों कृग्धातोः सम्बन्धी गतिसंज्ञो वा स्यात् / धातो प्राक् [एव प्रयुज्यते / तिरस्कृत्य तिरःकृत्य / पक्षे तिरःकृत्वा // 10 // अ० 'तिरसो वा' (2 / 3 / 2) इत्यनेन वा सकारः / तिरःकृत्वा काष्ठं गत इति व्यावृत्तिः // 10 // मध्येपदेनिवचनेमनस्युरस्यनत्याधाने // 3 // 1 // 11 // अत्याधानमुपश्लेषः आश्चर्यं च ततोऽन्यदनत्याधानम् / अनत्याधानेऽर्थ मध्ये इत्यादीनि सप्तम्येकवचनान्तप्रतिरूपकाणि [धातोः सम्बन्धीनि] अव्ययानि गतिसंज्ञानि वा स्युः। धातोः प्राक् [एव प्रयुज्यन्ते] / मध्येकृत्य मध्येकृत्वा / [बलं कृत्वा इत्यर्थः] / पदेकृत्य पदेकृत्वा / निवेचनेकृत्य निवेचनेकृत्वा / मनसिकृत्य मनसिकृत्वा / उरसिकृत्य उरसिकृत्वाB / अनत्याधान इति किम् ? मध्ये कृत्वा धान्यराशिं स्थिता हस्तिनः / पदे कृत्वा शिरः शेते / मनसि कृत्वा सुखं गतः / उरसि कृत्वा पाणिं शेते [अव्ययमित्येव-मध्ये कृत्वा वाचं तिष्ठतीत्यादि] // 11 // . अ० मध्ये च पदे च निवचने च मनति च उरसि च / प्रथमाबहुवचनम् / सूत्रत्वात् जस् लुप्यते / निवचनेशब्दो वचनाभावे वर्त्तते / वाचं निरुध्य इत्यर्थः / [उभयत्र]Bनिश्चित्य इत्यर्थः // 11 / / उपाजेऽन्वाजे // 3 // 1 // 12 // एतेऽव्यये सप्तम्येकवचनान्तप्रतिरूपके स्वभावार्बलस्य भग्नस्य वा बलाधाने पुष्टिकरणे]ऽर्थे गतिसंज्ञे वा भवतः / धातोः प्राक् (एव प्रयुज्यते) / उपाजेकृत्य उपाजेकृत्वा / अन्वाजेकृत्य अन्वाजेकृत्वा // 12 // ___ अ० दुर्बलजनस्य कस्मिंश्चित्कार्ये भग्नस्य वा साहाय्यं पुष्टिं कृत्वा इत्यर्थः / द्वयोरप्युदाहरणयोरर्थोऽयम् / / 12 / / स्वाम्येऽधिः // 3 // 1 // 13 // [स्वामित्वे] - अधि अव्ययं स्वामित्वे गम्यमाने कृग्योगे गतिसंज्ञं वा स्यात् / धातोः प्राक् (एव प्रयुज्यते) / चैत्रं ग्रामेऽधिकृत्य अधिकृत्वा गतः-स्वामिनं कृत्वेत्यर्थः / स्वाम्य इति किम् ? ग्राममधिकृत्य उद्दिश्येत्यर्थः