________________ 212 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते पटत्शब्दतकारस्य अभ्यासे लोपः / प्रकृतिपटत्तकारस्य ‘डित्यन्त्यस्वरादेः' (2 / 1 / 114) अन्त्यस्वरादिलोपः / पटपटाशब्दः / अपटपटा पटपटाकरणं पूर्वं इति वाक्ये 'प्राक्काले' (5 / 4 / 47) क्त्वा / 'अनञः' (3 / 2 / 154) यप् // 2 // कारिका स्थित्यादौ // 3 // 1 // 3 // ___ कारिकाशब्दः स्थित्यादावर्थे धातोः सम्बन्धी गतिसंज्ञः स्यात् / तस्माद्धातोः प्रागेव [प्रयुज्यते / स्थितिः [कोऽर्थः] मर्यादा वृत्तिर्वा / आदिशब्दात् यत्नधात्वर्थनिर्देशौ गृह्यते / कारिकाकृत्य // 3 // .. ___ अ० करणं कारिका भावे णक / कारिका करणं पूर्वं इति वाक्येऽपि 'कारिका स्थित्यादौ' इति सूत्रेण गतिसंज्ञायां गतिसंज्ञायाश्च ‘गतिः' (1 / 1 / 36) इति सूत्रेण अव्ययसंज्ञाभावात् 'अव्ययस्य' (3 / 2 / 7) इति सूत्रेण षष्ठ्या लुप् / षष्ठ्या लुप् इति वाक्यं सम्बन्धः / कारिकाकृत्य कोऽर्थः ? स्थितिं यत्नं वा क्रियां वा कृत्वा इत्यर्थः // 3 // भूषादरक्षेपेऽलंसदसत् // 3 // 1 // 4 // अलं सत् असत् इति शब्दा यथासङ्ख्यं भूषा [मण्डनं] आदरक्षेपेष्वर्थेषु+ गतिसंज्ञाः स्युः / धातोः प्राक् प्रयुज्यन्ते / भूषा-अलङ्कृत्य, अलङ्कृतम् / सत्कृत्य / असत्कृत्य / भूषादिष्विति किम् ? अलंकृत्वा मांकारीत्यर्थः / सत्कृत्वा विद्यमानं कृत्वेत्यर्थः / असत्कृत्वा अविद्यमानंकृत्वा // 4 // अ० भूषा मण्डनम् / प्रीत्यासम्भ्रम आदर उच्यते / क्षेपोऽनादरः / +धातोः संबन्धे वर्तमाना इत्यर्थः // 4 // अग्रहानुपदेशेऽन्तरदः // 3 // 15 // अन्तर् अदस् शब्दौ यथासङ्ख्यमग्रहेऽनुपदेशेऽर्थे गम्यमाने गतिसंज्ञौ, धातोः प्राक् [प्रयुज्येते] / अन्तर्हत्य मध्ये हिंसित्वा शत्रून् गत इत्यर्थः / अदःकृत्य एतत्कर्ता इति चिन्तयति / अग्रहानुपदेश इति किम् ? अन्तर्हत्वा मूषिकां श्येनो गतः / अदः कृत्वा गत इति परस्य कथयति // 5 // ___अ० अग्रहोऽस्वीकरणे / स्वयं परामर्शोऽनुपदेशः विशेषानाख्यानं वा / अन्तःशब्दो मध्येऽधिकरणभूते परिग्रहे च वर्त्तते / तत्र मध्येऽर्थे गतिसंज्ञः / परिग्रहे नो गतिसंज्ञः / व्यावृत्तौ परिग्रहार्थोऽन्तःशब्दः / अन्तर्हत्वा इत्यत्र क्त्वास्थाने यपि कृते सति ‘यपि' (4 / 2 / 56) इति सूत्रेण हनो नकारस्य लोपः / ततो 'ह्रस्वस्य०' (4 / 4 / 113) इति तोऽन्तः / स्वयंपरामर्शोऽनुपदेशः, विशेषानाख्यानं वा / विशेषानाख्याने मूलप्रयोगे चिन्तयतीत्यस्य स्थाने कथयतीतिप्रयोगो ज्ञातव्यः / अदःशब्दश्चादौ अव्ययम् // 5 // कणेमनस्तृप्तौ // 3 // 16 // ___ कणे मनस् इति शब्दौ तृप्तौ गम्यमानायां गतिसंज्ञौ [स्याताम्] / धातोः प्राक् प्रयुज्यते / तृप्तिः [वाच्छाअभाव] श्रद्धोच्छेदः / कणेहत्य मनोहत्य पयः पिबति / तावत् पिबति यावत्तृप्त इत्यर्थः / तृप्ताविति किम् ? तन्दुलावयवे कणे हत्वा गतः / मनो हत्वा गतः [मनो विनाश्य गतः // 6 // पुरोऽस्तमव्ययम् // 3 // 17 // पुरस् अस्तम् इत्यव्यये गतिसंज्ञे स्याताम् / धातोः प्राक् च [प्रयुज्येते] / पुरस्कृत्य / पुरस्कृतम् / अस्तंगत्य पुनरुदेति रविः / अस्तंगतानि दुःखानि / अव्ययमिति किम् ? पुरःकृत्वा / अस्तं कृत्वा काण्डं गतः / सकारो यप् च न भवति // 7 // अ० ‘असूच क्षेपणे' अस्यते स्म अस्तम् / क्त / अस्तं कोऽर्थः ? क्षिप्तम् / शरु लांषी(नांखी) गइओ इति