________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 211 काच्छिदयः' (4 / 4 / 88) 'इट् / द्वित्वेऽप्यन्तेप्यनितेः परेस्तु वा' (2 / 3 / 81) इति नकारस्य णत्वम् ‘अधेरुपरिभावोऽर्थः प्रस्तावादेः प्रतीयते / परेश्च सर्वतोभावो गतार्थत्वं द्वयोस्ततः' // 1 // इति श्लोकः / अतिक्रमेण सिच्यतेस्म / अतिक्रमेण स्तूयतेस्म / निष्टपतीत्यत्र 'निसस्तपेऽनासेवायाम्' (2 / 3 / 35) इत्यनेन सकारस्य षकारः / निष्टपति कोऽर्थः ? सकृदग्निं स्पर्शयति सुवर्णमित्यर्थः / ‘मील इमील स्मील क्ष्मील निमेषणे' / धातोः इत्यधिकारः प्राक्च इत्यप्यधिकारो ‘जीविकोपनिषदौपम्ये' (3 / 1 / 17) इति गतिसंज्ञाधिकारसूत्रं यावत् ज्ञातव्यः // 1 // ऊर्याद्यनुकरणविडाचश्च गतिः // 3 // 1 // 2 // ऊर्यादयोऽनुकरणानि ज्यन्ता डाजन्ताश्च शब्दाः उपसर्गाश्च धातोः सम्बन्धिनो गतिसंज्ञाः स्युः तस्माद्धातोः प्रागेव प्रयुज्यन्ते / ऊर्यादि-ऊरीकृत्य उररीकृत्य ऊरीकृतम् उररीकृतम् / अनुकरणे, खाकृत्य [खाट इत्यस्य करणं पूर्वम्] / पूत्कृत्य / ळ्यन्तः-शुक्लीकृत्य [अशुक्लं शुक्लं करोति] / डाजन्त-पटापटाकृत्य / उपसर्गप्रकृत्य प्रकृतम् पराकृतम् / ऊर्यादीनां शब्दानां चिडाच्साहचर्यात् कृभ्वस्तिधातुभिरेव योगे गतिसंज्ञा / श्रत्शब्दः [श्रद्धाय, श्रद्धां कृत्वा, शीघ्रं च] करोतिदधातिभ्यां योगे गतिसंज्ञः / प्रादुराविःशब्दौ कृग्योगे / साक्षादादिगणे च गतिसंज्ञाविकल्पार्थ पठ्यते / गतिप्रदेशा गतिरित्यादयः // 2 // अ० ऊरी उररी अङ्गीकरणे विस्तारे च / उरूरी अङ्गीकारे / एते त्रयो भृशार्थप्रशंसयोरपि / / पाम्पीशब्दो विध्वंसमाधुर्यकरुणविलापेषु / पाम्पीकृत्य विध्वंसं माधुर्यं वा, करुणविलापान्वा कृत्वेत्यर्थः / ताली आताली वर्णोत्तमार्थयोः / धूशी कान्तिकांक्षयोः (पाम्प्यादयो विस्तारेऽपि) / शकला संशकला ध्वंशकला भ्रंशकला आलम्बी केवाशी शैवाली पार्दाली मस्मसा मसमसा, एते हिंसायाम्, आद्याश्चत्वारः परिभवेऽपि, ततः परे चत्वार आविष्कारेऽपि, अन्त्यौ च द्वौ प्रत्येकं चूर्णसंवरणयोरपि, पार्दाली शब्दार्थेऽपि, मस्मसा मस मसानुकरणेऽपि / गुलुगुधाशब्दः पीडाक्रीडयोः / सजूःशब्दः सहार्थे / फलूफली विक्ली आक्ली; एते विकारे / आद्यौ द्वौ क्रियासम्पत्तिकर्मसिद्धिकण्टकरहितदेशेषु, अन्त्यौ द्वौ विचारविभागयोः / श्रौषट् वषट् वौषट् स्वाहा स्वधा देवतासंप्रदानदानमात्रयोः / वषट् पूजायामपि / स्वधा तृप्तिप्रीतिप्रत्यभिवादनेष्वपि / श्रत् श्रद्धाने शीघ्रं च / प्रादुस् आविस् प्राकाश्ये / पशू केवाली हिंसायाम् / वेताली / विस्तारे / - केचित्तु धूली-वर्षाली-पाम्पाली-विचालीशब्दचतुष्टयमप्यधीयते / श्रौषट् इत्यादिशब्दाः 6 संप्रदाने कोऽर्थः ? देवताभ्यो दीयमानवस्तुविषये / दानमात्रे कोऽर्थः ? सामान्यदाने च वर्त्तन्त इति ऊर्यादिगणः / 'ऊर्याद्यनुकरणे'त्यादि 'जीविकोपनिषदौपम्ये' (3 / 1 / 17) इत्यन्तसूत्रैः षोडशभिः गतिसंज्ञा विधीयते / गतिसंज्ञाया इदं फलम् / गतिसंज्ञकशब्दः सर्वोऽपि 'गतिः' (1 / 1 / 36) इति प्रथमपादसूत्रेण अव्ययसंज्ञको ज्ञातव्यः / अव्ययसंज्ञकत्वात् 'गतिक्वन्यस्तत्पुरुषः' (3 / 1 / 42) इति सूत्रेण तत्पुरुषसमाससंज्ञो भवति / अव्ययसंज्ञत्वात् तत्पुरुषसमाससंज्ञत्वात् ऊरीकृत्य उररीकृत्य खाट्कृत्य शुक्लीकृत्य पटपटाकृत्य प्रकृत्य पराकृत्य प्रकृतं पराकृतम् ऊरीकृतमित्याद्युदाहरणेषु अव्ययपूर्वपदेन संह समासः / क्त्वास्थाने च ‘अनञः क्त्वो यप्' (3 / 2 / 154) इत्यनेन यप् आदेश इत्यादिकार्याणि जातानि इति फलं गतिसंज्ञाया ज्ञेयम् / एवं 'कारिकास्थित्यादौ' (3 / 1 / 3) इत्यादिसर्वसूत्रेष्वपि गतिसंज्ञाफलमिदं ज्ञेयम् / समासे च 'अव्ययस्य' (3 / 2 / 7) इति सूत्रेण षष्ठ्यादीनां विभक्तीनां लोपश्च इत्यपि फलम् / पूर्वमेव ऊरीकरणम् पूर्वं पटनशब्दः, अपटत् पटद्भवतीति वाक्ये 'अव्यक्तानुकरणादनेकस्वरात् कृभ्वस्तिनाऽनितौ द्विश्च' (7 / 2 / 145) इति सूत्रेण डान्प्रत्ययः / अनेनैव पटत् इत्यस्य द्विवचनम् / पटत्पटत् / ‘डाच्यादौ' (7 / 2 / 149) इति सूत्रेण