________________ 210 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमाातिवर्जः प्रादिरुपसर्गः प्राक् च // 3 // 11 // [गतो ज्ञातोऽर्थोऽभिधेयो ययोः तौ च तौ अधिपरी च] धातोः सम्बन्धी तदर्थयोती चायन्तर्गतः [चादिगणमध्यवर्ती] प्रादिः शब्दगण उपसर्गसंज्ञः स्यात् / तस्माद्धातोः प्राक् प्रयुज्यते, न परो न व्यवहितः / पूजार्थो स्वती, गतार्थावधिपरी, अतिक्रमार्थमतिं च वर्जयित्वा। प्रणयति अभिषिञ्चति उपलम्भः / एषूपसर्गसंज्ञायां णत्वषत्वनागमाः सिद्धाः / धातोरिति किम् ? वृक्षवृक्षमभिसिञ्चति, ['लक्षणवीप्स्येत्थम्भूतेष्वभिना' (2 / 2 / 36) इति द्वितीया] पूजार्थस्वत्यादिवर्जनं किम् ? पूजार्थो स्वतीसुसक्तम् सुस्तुतं भवता / अतिसिक्तं अतिस्तुतं भवता / [उपसर्गेण] धात्वर्थः प्रशस्यते / अत्रोपसर्गसंज्ञाया अभावान षत्वम् / गतार्थावधिपरी-अध्यागच्छति आगच्छत्यधि, पर्यागच्छति आगच्छतिपरि, उपरिभावः सर्वतोभावश्चान्यतः प्रकरणादेः प्रतीयते इति गतार्थत्वम् / अत्र प्राक्त्वनियमाभावः। अतिक्रमार्थोऽतिः-अतिसिक्तम् अतिस्तुतं भवता / अतिक्रमेण सेकः स्तुतिश्च कृतेत्यर्थः / अत्र न षत्वम् / अतिसिक्त्वा अतिस्तुत्वा। अत्र समासाभावान यप् / प्रादिग्रहणं किम् ? पुनर्नमति / साधु सिञ्चति / 'धात्वर्थ बाधते कश्चित् [उपसर्गः] कश्चित्तमनुवर्त्तते / तमेव [धात्वर्थं] विशिनष्ट्यन्यो [अन्यः कश्चिदुपसर्गो धात्व) विशिनष्टि, कोऽर्थः ? प्रकर्षमानपति] ऽनर्थकोऽन्यः प्रयुज्यते' // 1 // बाधते यथा-प्रतिष्ठते प्रवसति दिशान्तरे याति] / प्रलीयते ['लीच् श्लेषणे' दिवादिः] प्रविश्यति / वित्रपति [धातुपाठे योऽर्थः] तमनुवर्तते यथा ['इड अध्ययने'] अधीते / अध्येति / आचष्टे / तमेव विशिनष्टि यथा / प्रार्थयते / विजयते / निमीलति एषामुपसर्गाणां चापञ्चभ्यः प्रायेण प्रयोगो भवति / यथा आहरति व्याहरति अभिव्याहरति समभिव्याहरति प्रसमभिव्याहरति / धातोरिति प्राक् चेति चाधिकारो गतिसंज्ञां यावत् // 1 // अ० प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि प्रति परि उप अति अपि सु उद् अभि इति प्रादिः 22 उपसर्गगणः / प्रणयतीत्यत्र ‘अदुरुपसर्गान्तरो णहिनुमीनानेः' (2 / 3 / 77) इत्यनेन णत्वम् / अभिषिञ्चतीत्यत्र 'स्थासेनिसेधसिच०' (2 / 3 / 40) इत्यनेन षत्वम् 'मुचादितृफदृफगुफ०' (4 / 4 / 99) इत्यनेन नोऽन्तोनागमश्च सिद्धौ / उपलम्भ इत्यत्र ‘उपसर्गात्खल्पञोश्च' (4 / 4107) इति नोऽन्तः / प्रगता नायका यस्मात् स प्रनायको देशः / इत्यत्र तु सत्यपि धातुसम्बन्धे 'येनैव धातुना संबद्धाः प्रादयः तं धातुं प्रत्येवोपसर्गसंज्ञा' इति गमिसम्बन्धेऽपि नयतिधातुं प्रति अनुपसर्गत्वात् न णत्वम् / एवं ऋच्छन्तीति ऋच्छकाः, णक / प्रगता ऋच्छका यस्मात् स प्रर्च्छकः (देशः) / अत्रापि प्रस्यानुपसर्गत्वात् 'ऋत्यारुपसर्गस्य' (1 / 2 / 9) इत्यनेन आर् न भवति / सु कोऽर्थः ? पूजितं सिच्यतेस्म स्तूयतेस्म इति वाक्ये 'ज्ञानेच्छार्चार्थ 0' (5 / 2 / 92) इति क्तः / अत्रोपसर्गत्वाभावात् 'उपसर्गात्सुगसुवसो०' (2 / 3 / 39) इत्यादिना न प्राप्नोति षत्वम् / पूजाग्रहणं किम् ? सुषिक्तं किं तवात्र / धात्वर्थः कुत्स्यते / उपसर्गसंज्ञत्वात् षत्वं सिद्धम् / स्थाधातुः स्वभावादवस्थाने प्र उपसर्गेण प्रचलने वर्त्तते देशान्तरे याति / 'लीङ्च श्लेषणे' दिवादिः / अध्येति 'इंक् स्मरणे' / प्राणिति ‘अन श्वसक् प्राणने' अन् प्रपूर्वः / तिव् / 'रुत्पञ्च