________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः ___ अ० लोकायतं नाम नास्तिकमतशास्त्रम् / तत्र कर्त्ता भागुरिराचार्यः / स ग्रन्थे वर्तिका इत्युच्यते / / 11 / / - अस्यायत्तक्षिपकादीनाम् // 2 // 4 // 11 // [अकारस्य] यद्-तद्-क्षिपकादिवर्जितस्य नाम्नो योऽकारस्तस्य इत्स्यात् / अनित्कि आप्परे परतः / वा इति निवृत्तं पृथग्योगात् / कारिका पाचिका मद्रिका मुण्डिका / [बधर एव] बधरिका / अस्येति किम् ? गोका / अनित्कीत्येव-जीवका नन्दका / आप्पर इत्येव-कारकः / आप् एव परो यस्मादिति नियमः किम् ? बहुपरिव्राजका बहवः परिव्राजका यत्र सा बहुपरिव्राजका आप्] मथुरा / विभक्त्यन्तादयमाप् इति प्रतिषेधः / यत्तक्षिपकादिवर्जनं किम् ? यका सका [या सा प्रकृतिः / विचाले अक्प्रत्ययः, तत आप्] / क्षिपका ध्रुवका इत्यादि // 111 // अ० नकारानुबन्धवर्जिते कप्रत्यये आप्परे / यदि ‘अस्यायत्त०' इति सूत्रेऽपि विकल्पः स्यात्तदा स्विका स्वका इत्यादौ ‘ड्यादीदूतः के' (2 / 4 / 104) इति ह्रस्वे कृते 'अस्यायत्त०' इति सूत्रेण विकल्पेन इत्वस्य सिद्धत्वात् 'स्वज्ञाजभस्त्रा०' (2 / 4 / 108) इत्यादीनां पृथगुपादानं निरर्थकं स्यादिति वा इति निवृत्तं सूत्रे / करोतीति कारकः, पचतीति पाचकः ‘णकाँचौ' (5 / 1148) / स्त्रीचेत् कारिका पाचिका आप् / पश्चात् इत्वम् / मद्रेषु भवा मद्रिका / 'वृजिमद्राद्देशात्कः' (6 / 3 / 38) इति सूत्रेण कप्रत्ययः / जीवतात् जीवका, नन्दतानन्दका 'आशिष्यकन्' (5 / 1 / 70) इति अकन् / क्षिपका शस्त्रविशेषः, ध्रुवका धुवका (आवपनविशेषौ), लहका-सविलासा स्त्री / चरका मुनिः / चटका / इष्टका / एडका अजाभेदः / एरका तृणम् / करका घनोपलः, त्रिलिङ्गः / अवका / अलका | (शेवालः) / दण्डका अलका (दण्डकारण्यम्) नगर्यो पिष्पका अश्वत्थफलम् / कन्यका / मेनका गौरीमाता अप्सराश्च / रेवका / सेवका / धारका / उपत्यका पर्वताधोभूमिः / अधित्यका पर्वतो भूमिः / इत्यादि क्षिपकादिगणः / बहुवचनमाकृतिगणार्थम् // 111 / / नरिका मामिका // 2 // 4 // 112 // नरकशब्दमामकशब्दयोरकारस्य इत्वं निपात्यते / नरिका मामिका / ककारस्याप्रत्ययसम्बन्धित्वात्पूर्वेणाप्राप्ते वचनम् [उदाहरणे ककारो न प्रत्यय इति ‘अस्यायत्तेन' इत्वं न प्राप्नोति इति वचनमिदं कृतम्] // 112 // * अ० नरान् कायतीति नरिका 'आतो डोऽह्वावामः' (5 / 1 / 76) इति डः / आप् / अस्मद्. ममेयं मामिका इति वाक्ये 'वा युष्मदस्मदोऽञीनञौ युष्माकाऽस्माकं चास्यैकत्वे तु तवकममकम्' (6 / 3 / 67) इति सूत्रेण अप्रत्ययः / अस्मदो ममक आदेशश्च / तत आप् // 112 / / ___ तारकावर्णकाष्टकाज्योतिस्तान्तवपितृदैवत्ये // 2 // 4 // 113 // - तारकादिशब्दा यथासङ्ग्यं ज्योतिरादिष्वर्थेषु इकारारहिता निपात्यन्ते / तारका ज्योतिः नक्षत्रं कनीनिका चं, अन्यत्र तारिका / वर्णका तान्तवः प्रावरणविशेषः, अन्यत्र वर्णिका / अष्टका पितृदेवत्यं कर्म, अन्यत्राष्टौ द्रोणाः परिमाणमस्या इति के अष्टिका खारी // 113 // द्वितीयाध्यायस्य चतुर्थः पादः // ग्रं० श्लोक 260 // - अ० तृधातोः परतो णकप्रत्यये टाप् / तारका इति रूपम् / नेत्रतापकनीनिका तारका / वर्णयतीति णके। 'अशूटि व्याप्तौ' अश् ‘इष्यशिमसिभ्यस्तकक् (77) इत्युणादिसूत्रेण तकक् / 'यजसृज०' (2 / 1 / 87) इति षत्वम् / / 113 // इति श्रीसिद्धहेमशब्दानुशासने द्वितीयस्याध्यायस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतः चतुर्थ पादः समाप्तः / /