________________ 208 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सुनयिका अशोकिका दाक्षिणात्यिका पाश्वात्यिका इहत्यिका // 108 // अ० यश्च कश्च यकम् / धातुश्च त्यश्च धातुत्यौ / न धातुत्यौ अधातुत्यौ / अधातुत्ययोर्यकं अधातुत्ययकम् स्वज्ञाजभत्रं च अधातुत्ययकं च स्वज्ञाजभत्राधातुत्ययकं तस्मात् / स्विका स्वका इत्यादि / स्वशब्दो ज्ञातौ कुत्सिताद्यर्थे स्त्री-लिङ्गोऽपि (च इति) वैयाकरणमतम् / ततः कुत्सिता स्वा ज्ञातिः स्विका स्वका 'कुत्सिताल्पाज्ञाते' (7 / 3 / 33) इति कप् / न स्वा अस्विका / निर्गता स्वा यत्र निःस्विका निःस्वका / एवं कुत्सिता ज्ञा ज्ञिका ज्ञका / न ज्ञा अज्ञिका / निर्गता ज्ञा निर्शिका / अथवा न स्वा अस्वा, अल्पा अस्विका / एवं अज्ञिका / कुत्सिताऽल्पा वा अजा अजिका / तथा न विद्यमाना भस्रा यस्या सा अभस्वा / अल्पा [अ] भत्रा अभस्त्रिका / तथा अस्विका इत्यादौ तु विभक्तेः पर न आप् / किन्तु कप्रत्ययात्पर आप् इति अत्वं / ज्ञातिधनार्थयोः स्वशब्दो न सर्वादिः इति न अक् इति हेतोः स्वशब्दात् कप् कार्यः / बहूनि अपत्यानि यस्या सा बह्वपत्या / आप् ततः ‘शेषाद्वा' (7 / 3 / 175) इति कच् / ततः 'स्वज्ञाजभस्त्रा०' इति सूत्रेण इकारो ह्रस्वश्च / बह्वपत्यिका बह्वपत्यका बह्वपत्याका इति त्रैरूप्यं सिद्धम् / बह्वपत्यकेत्यत्र त्यप्रत्ययो नास्ति इति त्रैरूप्यम् / तथा शुष्किका अत्र कथं न विकल्पः ? सूरिराह क्तादेशस्य ककारस्य असिद्धत्वात् / इति विशेषाः 'स्वज्ञाजभस्त्रे'ति सूत्रे ज्ञेयाः / दक्षिणा. दक्षिणस्यां भवो दाक्षिणात्यः / पश्चाद्भवः पाश्चात्यः / 'दक्षिणापश्चात्पुरसस्त्यण' (6 / 3 / 13) इति सूत्रेण त्यण् / स्त्री चेत् दात्रिणात्या पाश्चात्या। इह भवा इहत्यिका 'केहामात्रतसस्त्यच्' (6 / 3 / 16) इति सूत्रेण त्यच् / तत आप् / ततः स्वार्थे कः / ‘इच्चापुंस०' (2 / 4 / 107) इकारः // 108 / / द्वयेषसूतपुत्रवृन्दारकस्य // 2 / 4 / 109 // आप् इति निवृत्तं पृथग्योगात् / एषामन्तस्यानित्क्याप्परे [परत] इकारो वा सयात् / द्विके द्वके / एषिका एषका / सूतिका सूतका / पुत्रिका पुत्रका / वृन्दारिका वृन्दारका // 109 // __ अ० द्वके द्विके-अत्र द्विशब्दः प्रथमा औ 'आद्वेरः' (2 / 1 / 41) इति सूत्रेण इकारस्य अकारः / अकारं विश्लिष्य 'त्यादिसर्वादेः स्वरे०' (7 / 3 / 29) इति अक् / आप् ‘समासानां तेन दीर्घः' (1 / 2 / 1) तत ‘औता' (1 / 4 / 20) इति सूत्रेण एत्वं औकारेण सह / तदनन्तरं 'द्ववेषसूत्र०' इत्यनेन विकल्पेन इत्वम् / एषिका इत्यत्रापि एषा. एतदः सिः आनीय एषा साध्यते / ततोऽक् / इत्वम् / 'द्वयेषसूत०' इति सूत्रे द्वि-एषशब्दयोः केवलयोरेव विकल्पेन सूत्रेण इकारः / न द्वे / न एषा / न द्वके / न एषका इति युक्त्या नपूर्वकयोः अक्युक्तयोईि- एषशब्दयोर्वैयाकरणा इत्वं न प्रयोजयन्त्येव / अद्वके अनेषका इत्येव रूपं भवति / तथा द्विशब्दसाहचर्यात् एष इति सर्वादिसम्बन्धिन एतद्-शब्दस्य कृतविकारस्य निर्देशो ज्ञातव्यः / तेन 'इषत् इच्छायाम्' इषेर्धातोर्णकाणकादिप्रत्ययान्तस्य अविकृतस्य न ग्रहणम्, एतद्-शब्दस्यापि अविकृतस्य इत्वं न भवतीत्यर्थः / इच्छतीति एषिका / एता एव एतिका / अत्र उत्तरसूत्रेण इत्वं न 'द्वयेषसूत०' इत्यनेन / / 109 / / वौ वर्तिका // 2 // 4 // 110 // [वर्त्तिका चटिका उच्यते लोके चिडी इति च] . वौ पक्षिवाच्ये वर्तिका इति इत्वं वा निपात्यते / वर्तिका वर्तका-शकुनिः। [वर्तते इति वर्ततेर्णको ‘णकतृचौ (5 / 1 / 48), आप् वर्त्तिका इति शब्दः] वाविति किम् ? वर्तिका [आचार्यः, बाहुलकात् स्त्रीलिङ्गशब्दः] / भागुरिर्लोकायः तस्य व्याख्यात्रीत्यर्थः // 110 //