________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः परमखट्वका परमखट्वाका / अपुंस इति किम् ? सविका। अनिदिति किम् ? दुर्गका। कीति किम् ? [खदाया भावः ‘भावे त्वतल्' (71 / 55)] खट्वाता। आप्पर इति किम् ? प्रियखट्वाकः पुरुषः। आप इत्येव मातृका // 107 // - अ० अनित्कि-न् नकार इत् अनुबन्धो यत्र स नित्, न विद्यते नित् नकारोऽनुबन्धो यत्र कप्रत्यये स अनित् / अनिच्चासौ क् च कप्रत्ययः अनित्क्, तस्मिन् अनित्कि / 'इच्चापुंसः' इति सूत्रे चकारो ह्रस्वानुकर्षणार्थः, तेन इकारो विकल्पेन भवतीति सूत्रार्थः / खट्विका अत्र इकारः / खट्वका अत्र ह्रस्वः / इकारपक्षे ह्रस्वपक्षे च खट्दाका इति रूपम् / एवं रूपत्रयम् / परमा चासौ खट्वा च परमखट्वा / परमखट्दैव परमखट्विका 'यावादिभ्यः कः' (7 / 3 / 15) एवं प्रिया खट्वा यस्याः सा प्रियखट्विका ‘शेषाद्वा' (7 / 3 / 175) इति कच् / सर्व. 'त्यादिसर्वाऽऽदेः स्वरेष्वन्त्यात्पूर्वोऽक्' (7 / 3 / 29) इति अक् / अकारं विश्लिष्य पश्चादाप् / 'अस्यायत्त०' (2 / 4 / 111) इति इकारः / दुर्गादेवी। अनुकम्पिता दुर्गादेवी दुर्गा ‘ते लुग्वा' (3 / 2 / 108) इति सूत्रेण देवीशब्दलोपः / 'लुक्युत्तरपदस्य कप्न्' (7 / 3 / 38) इति कप्न / अत्र ककारो नकारसंयुक्तः इति अनित्कीति वर्जनात् न इत्वम् ‘ड्यादीदूतः के' (2 / 4 / 104) इत्यनेन हस्व एव / ___ मातुस्तुल्या मातृका 'तस्य तुल्ये कः सञ्ज्ञाप्रतिकृत्योः' (7 / 1 / 108) इति सूत्रेण कप्रत्ययः / पश्चात् आप्। न विद्यते खट्वा अस्याः सा अखट्विका / खट्वामतिक्रान्ताऽतिखट्विका / 'गोश्चान्ते०' (2 / 4 / 96) इति ह्रस्वः अखट्व अतिखट्व (स्त्रीपुंससाधारणात्) पुनरपि आप् / अल्पा अखट्वा अल्पा अतिखट्वा 'कुत्सिता०' (7 / 3 / 33) कप्रत्ययः। 'ड्यादीदूतः के' (2 / 4 / 104) इत्यनेन ह्रस्वः / 'अस्यायत्त०' (2 / 4 / 111) इति अकारस्य इत्वम् / अखट्विका अतिखट्विका एकमेव रूपं न त्रैरूप्यम् / अपुंस्कात् आप् न कृत इति हेतोः / यत्र तु न विद्यते खट्वा यस्या सा अखट्विका इति वाक्ये 'शेषाद्वा' (7 / 3 / 175) इति कच्, तत्र त्रैरूप्यं भवत्येव-अखट्विका अखट्वका अखट्वाका इति त्रैरूप्यम् / प्रिया खट्वा यस्याः सा प्रियखट्वका इति वाक्ये 'गोश्चान्ते.' (2 / 4 / 96) इति ह्रस्वो न कार्यः। परत्वात् ‘शेषाद्वा' (7 / 3 / 175) इति कच् क्रियते / तत 'इच्चापुंसो०' (2 / 4 / 107) इति इकारहस्वौ विकल्पेन। प्रियखट्विका प्रियखट्वका प्रियखट्वाका इति युक्त्या त्रैरूप्यं भवति / एते विशेषा 'इच्चापुंसो०' इति सूत्रे ज्ञातव्या 'इच्चापुंसो२' इति सूत्रे प्रियखट्वाकः पुरुष इति व्यावृत्तेरग्रे आप् एव परोऽस्मात् इति बहुव्रीहिः किम् ? प्रियखट्वाकमतिक्रान्ता अतिप्रियखट्वाका इति उदाहरणं व्यावृत्तेः / अत्रोदाहरणे प्रथमं द्वितीया / पश्चात् आप् इति न इत्वम् / इत्यक्षराणि ज्ञातव्यानि // 107 / / स्वज्ञाजभस्त्राऽधातुत्ययकात् // 2 / 4 / 108 // स्व ज्ञ अज भस्त्रेभ्योऽधातोप्रत्ययस्य च याववयवौ यकारककारौ ताभ्यां च परस्यापः स्थाने नकारानुबन्धवर्जिते ककारे आप्परे [परत] इकारो वा स्यात् / स्विका स्वका। अस्विका अस्वका। निःस्विका निःस्वका। ज्ञिका ज्ञका / अज्ञिका अज्ञका / अजिका अजका / अनजिका अनजका / बहजिका बह्वजका / अभस्त्रिका [इत्यादि सर्वत्र] अभस्त्रका / बहुभस्त्रिका बहुभस्त्रका / अतिभस्त्रिका अतिभस्त्रका / अत्र हि गौणस्य [आकारस्य] ह्रस्वत्वे कृते समासात् स्त्रीपुंससाधारणादाप् [पुन आप क्रियते इत्वम्] इति पूर्वेण न सिद्धयति / यदा त्वपुंस्कादाप् क्रियते तदा पूर्वेण [‘इच्चापुंसो' इत्यनेन] त्रैरूप्यमेव / भस्त्रिका भस्त्रका भस्त्राका / न भस्वा अभस्त्रा भल्पा [अ] भस्त्रा अभस्त्रिका अभस्त्रका अभस्त्राका / एवं परमभस्त्रिका 3 / यकार-इभ्यिका इभ्यका / आर्यिका आर्यका / क्षत्रियिका क्षत्रियका / ककार-चटकिका चटकका / मूषकिका मूषकका / धातुत्यवर्जनं किम् ?