________________ 206 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते इति णिन् 'नामिनोऽकलिहलेः' (4 / 351) इति वृद्धिः भार् / मालभारिणी इत्यत्र ‘स्त्रियां नृतो.' (2 / 4 / 1) ङी / उत्पलानां माला० / उत्पलमालां बिभर्तीत्येवंशील शीला (वा) उत्पलमालभारी उत्पलमालभारिणी // 102 / / गोण्या मेये // 2 // 4 / 103 // गोणीशब्दस्य मानवृत्ते [मानवाचिन] रुपचारान्मेयवृत्ते [मेये वर्तमानस्य] ईस्वः स्यात् / गोण्या मितो गोणिः / मेय इति किम् ? गोणी [छाटी] // 103 // यादीदूतः के // 2 // 4 / 104 // [डी आत् ईत् उत् इति रचना / ततः षष्ठी ङस् / ] डीप्रत्ययस्य आकार ईकार ऊकाराणां च के प्रत्यये परे ह्रस्वः [स्यात्] / [कुमार्येव] कुमारिका / पविका मृद्विका सोमपक. ['यावादिभ्यः कः' (7 / 3 / 15) इति कः, 'अस्यायत्त०' (2 / 4 / 111) इकारः] सोमपिका / लक्ष्मिका। तन्त्रिका वधुका / डीग्रहणं पुंवद्भावबाधनार्थम् // 10 // ___ अ० 'ककि लौल्ये' कक् / ककते लोलो भवति इति काकः अचि पृषोदरादित्वात् आत्वं काकः, पचनं पाकः घञ्, इत्यादौ तु 'प्रत्ययाप्रत्यययोश्च प्रत्ययस्यैव ग्रहणम्' इति न्यायबलात् ड्यादीदूतः के' इत्यनेन ह्रस्वो न भवति इति विशेषो ज्ञेयः / पट्विका मृदिक इत्यत्र 'क्यङमानिपित्तद्धिते' (3 / 2 / 50) इत्यनेन पुंवद्भावः प्राप्नोति इति ‘ड्यादीदूतः के' अत्र सूत्रे ङीप्रत्ययस्य हस्वविधानात् पुंवद्भावो न प्रवर्त्तते / एतच्च ‘क्यङ्मानिपित्तद्धिते' इति सूत्रे डीग्रहणं पुंवद्भावबाधनार्थमिति वक्ष्यते // 104 / / न कचि // 2 / 4 / 105 // ___ डी आई ऊतां कचि प्रत्यये ह्रस्वो न स्यात् / बहुकुमारीकः / बहुकीलालपांकः। ['ऋन्नित्यदितः' (7 / 3 / 171) कच्, कचित् ‘शेषाद्वा' (7 / 3 / 175) इति च प्रवर्त्तते] बहुलक्ष्मीकः बहुब्रह्मबन्धूकः // 10 // अ० बह्वयः कुमार्यो यत्र ग्रामे कुटुम्बे वा स बहुकुमारीकः 'ऋन्नित्यदितः' (7 / 3 / 171) इति सूत्रेण कच् समासान्तः / बहवः कीलालपा यत्र ‘शेषाद्वा' (7 / 3 / 175) कच् / बढयो लक्ष्म्यो यत्र / बह्वयो ब्रह्मबन्ध्वो यत्र 'ऋन्नित्यदितः' इति सूत्रेण कच् समासान्तः / एवं खार्या क्रीतं खारीकम् / काकण्या क्रीतं काकणीकम् / ‘खारीकाकणीभ्यः कच्' (6 / 4 / 149) इति कच् / 'न कचि' (2 / 4 / 105) इति सूत्रं ‘ड्यादीदूतः के' इति पूर्वसूत्रे निरनुबन्धग्रहणे न सानुबन्धस्येति न्यायस्य अभावज्ञापनार्थं कृतम् / तेन शबरोपलक्षिता जम्बूः, शबरजम्ब्वां भवः शाबरजम्बुकः / ‘उवर्णादिकण्' (6 / 3 / 39) इति सूत्रेण इकण् / 'ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (74/71) इति सूत्रेण इकण इकारो लुप्यते ततो ‘ड्यादीदूतः के' इति ह्रस्वः / अन्यथा निरनुबन्धस्य 'तस्य तुल्ये कः संज्ञाप्रतिकृत्योः' (7 / 1 / 108) इति विहितस्यैव कस्य स्यात् न कपादि अन्यस्य // 105 // नवापः // 2 / 4 / 106 // आपः कचि परे ह्रस्वो वा स्यात् / प्रियखट्सकः प्रियखट्वाकः / बहुमालकः बहुमालाकः // 106 / / अ० प्रियाः खट्या अस्मिन् / बढ्यो माला अस्मिन् / ‘शेषाद्वा' (7 / 3 / 175) इति सूत्रेण कच् समासान्तः / / 106 // इच्चासोऽनितक्यापपरे // 2 / 4 / 107 // आप् एव परो यस्मान्न विभक्तिः स आप्परः / अपुंल्लिङ्गार्थाच्छब्दाद्विहितस्य आपः स्थाने इकारो ह्रस्वश्च वा स्यात् / अनित् नकारानुबन्धवर्जिते, कि ककारे आप्परे परतः। खट्विका खट्वका खट्वाका। एवं परमखट्विका