________________ _ 205 . श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः क्लीबे // 2 / 4 / 97 // क्लीबे नपुंसके स्वरान्तस्य नाम्नो हस्वः स्यात् / कीलालपम् ग्रामणि नतभु अतिरि अतियु अतिनु कुलम् // 9 // ___ अ० कीलालं पिबति यत् कुलम्, ग्रामं नयति यत् कुलम्, नता भ्रू यस्य कुलस्य, रायमतिक्रान्तं अतिरि घामतिक्रान्तं यत् तत् अतिधु, नावमतिक्रान्तं अतिनु // 97 / / वेदूतोऽनव्ययम्वृदीच्ङीयुवः पदे // 2 // 4 // 98 // ईकार-ऊकारयोः पदे परतो ह्रस्वो वा स्यात् / यदि तौ अव्ययौ वृतौ ईपौ ङीरूपी इयुवस्थानो च न भवतः / लक्ष्मिपुत्रः लक्ष्मीपुत्रः / ब्रह्मबन्धुपुत्रः ब्रह्मबन्धुपुत्रः / अव्ययादिवर्जनं किम् ? ऊरीकृत्य उररीकृत्य। वृत्-इन्द्रहूपुत्रः। ई-कौमुदगन्धीपतिः। डीः-गार्गीपुत्रः / इयुक्-श्रीकुलम् भ्रूकुलम् यवक्रीकुलम् // 98 // अ० इन्द्र. ‘हेंङ् स्पर्द्धायाम् वाचि' ढे, 'आत्सन्ध्यक्षरस्य' (4 / 2 / 1) ह्वा / इन्द्रं ह्वयते इन्द्रहूः 'विप्' (5 / 1 / 148) 'यजादिवशवच०' (4 / 1 / 72) इति य्वृत् उकारः / 'दीर्घमवोऽन्त्यम्' (4 / 1 / 103) इति दीर्घः इन्द्रहः / इन्द्रहूश्चासौ पुत्रश्च / / 9 / / . ङ्यापो बहुलं नाम्नि // 2 // 4 // 99 // ड्यन्तस्य आबन्तस्य च नाम्न उत्तरपदे परतो नाम्नि सञ्ज्ञाविषये ह्रस्वः स्याद्बहुलम् / रोहिणिमित्रः भरणिगुप्तः महिदत्तः शिलवहम् शिलप्रस्थम् / कचिद्विकल्पः-रेवतिमित्रः रेवतीमित्रः, पृथिविदत्तः पृथिवीदत्तः, गङ्गदेवी गङ्गादेवी, गङ्गमहः गङ्गामहः, शिंशिपस्थलम् शिंशिपास्थलम् / कचिन्नस्यात्-फल्गुनीमित्रः नान्दीमुखम् / [नान्दीघोषः] नान्दीतूर्यम् / महीफलम् लोमकागृहम् लेपिकाखण्डः गङ्गाद्वारम् / झ्याप इति किम् ? भीपुरम् / नाम्नीति किम् ? नदीम्रोतः खट्वापादः // 19 // अ० रोहिण / 'रेवतरोहिणारे' (2 / 4 / 26) इति ङीः / भरणि / 'इतोऽक्त्यर्थात्' (2 / 4 / 32) डीः // 99 / / त्वे // 2 // 4 // 10 // याबन्तस्य त्वे प्रत्यये परे बहुलं ह्रस्वः स्यात् / [रोहिण्या भावः] रोहिणित्वम् रोहिणीत्वम् / [अजाया भावः] अजत्वम् अजात्वम् // 10 // भुवोऽच्च कुंसकुट्योः // 2 / 4 / 101 // [अत् च] भूशब्दस्य कंसकुट्योः परयोर्हस्वोऽकारश्च स्यात् / सुकुंसः कुंसः) ध्रुवकुटिरिव कुटिः कौटिल्यं वा कुटिः प्रकुटिः // 10 // मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते // 2 // 4 // 102 // - माला इषीका इष्टकाशब्दानां केवलानामन्ते वर्तमानानां च भारितूलचितेषु परेषु यथासङ्ग्यं ह्रस्वः स्यात् / मालभारी मालभारिणी उत्पलमालभारी / [इषीकायास्तूलं] इषीकतूलम् मुञ्जेषीकतूलम् / [इष्टकाभिश्चितं] इष्टकचितम् / पकेष्टकचितम् // 102 // . अ० मालां बिभर्तीत्येवंशीलः शीला (वा) मालभारी मालभारिणी / उभयत्र 'अजातेः शीले' (5 / 1 / 154)