________________ 204 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते (6 / 2 / 49) इति सूत्रेण मयट् / सर्वत्र ‘फले' (6 / 2 / 58) इति सूत्रेण अञ्-मयट्लोपः / ततो ‘ड्यादेः' इति डीलृप्यते / कुन्तिः / कुन्तेः राजा अपत्यं वा / अवन्तिः / अवन्तेः राजा अपत्यं वा 'दुनादिकुर्वित्कोशलाजादाळ्य' (6 / 1 / 118) इति ज्यः / 'कुन्त्यवन्तेः स्त्रियाम्' (6 / 1 / 121) इत्यनेन ज्यो लुप्यते / 'नुर्जातेः' (2 / 4 / 72) ङीः / कुरु. कुरूणां कुरोर्वाऽपत्यमित्यादि / 'दुनादि०' इति ज्यः / कुरोर्वा' (6 / 1 / 122) इति ज्यो लुप्यते 'उतो प्रणिन०' (2 / 4 / 73) इति अङ् / हरीतक्याः फलं विकारो अवयवो वा हरीतकी / 'प्राण्यौषधिवृक्षेभ्योऽवयवे च' (6 / 2 / 31) इत्यण् / 'फले' इत्यनेन अण्लोपः / ‘ड्यादे०' डीलोपः / पुनः ‘गौरादिभ्यो०' (2 / 4 / 19) डीः / पञ्चभिर्गोणीभिः क्रीतः / पञ्चभिः सूचीभिः क्रीतः 'मूल्यैः क्रीते' (6 / 4 / 150) इकण् / 'अनाम्न्यः' (6 / 4 / 141) लुप् / / 95 // -- गोश्वान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ // 2 // 4 // 96 // गौणस्याकिपो गोशब्दस्य ङ्यायन्तस्य [डी आप् ति ऊ] च नाम्नोऽन्ते वर्तमानस्य हस्वो भवति / यद्यसौ अंशिसमासान्त इयस्वन्त बहुव्रीह्यन्तो वा न स्यात् / [चित्रा गावोऽस्य] चित्रगुः / पञ्चगुः निःकौशाम्बिः, निःश्रेयसिः अतिखट्वः अतिब्रह्मबन्धुः / गौणस्येत्येव-[शोभना गौः] सुगौः। [कुत्सिता गौः] किंगौः / राजकुमारी / [परमश्चासौ ब्रह्मबन्धूश्च] परमब्रह्मबन्धुः / नक्षत्रमाला / अकिप इत्येव-प्रियगौः, प्रियकुमारी चैत्रः / गोश्चेति किम् ? [तन्त्रीमतिक्रान्तः] / अतितन्त्रीः / [लक्ष्मीमतिक्रान्त] अतिलक्ष्मीः / अतिश्रीः / अतिभूः एते शब्दा न डीप्रत्ययान्ताः] / अन्त इति किम् ? [गवां कुलं] गोकुलम् / कन्यापुरम् / कुमारीप्रियः [परे प्राहुःहस्वः इह कस्मान भवति / बहुकुमारीकः / [सूरिराह] परत्वात्प्रथममेव कचि कृतेऽन्त्यत्वाभावात् / अनंशिसमासेत्यादि किम् ? [अर्द्धं पिपल्याः] अर्द्धपिप्पली / तुर्यभिक्षा / [बह्वयः श्रेयसो यस्य स] बहुश्रेयसी पुरुषः // 96 // अ० पञ्चभिर्गोभिः क्रीतः ‘मूल्यैः क्रीते' (6 / 4 / 150) इकण् ‘अनाम्न्यः ' (6 / 4 / 141) लुप् / कौशाम्ब्या निर्गतः निःकौशाम्बिः / श्रेयसा निर्गतः निःश्रेयसिः / खट्वामतिक्रान्तः अतिखट्वः / ब्रह्मबन्धुमतिक्रान्तः / सर्वत्र 'गोश्चान्ते' इति ह्रस्वः / पञ्चकुमारी / कुमारीमिच्छति क्यन् / कुमारीयतीति क्विप् / तस्य लोपः / कुमारी / पञ्चकुमार्यो देवताऽस्य पञ्चकुमारी 'देवता' (6 / 2 / 101) अण् 'द्विगोरनपत्ये यस्वरादेर्लुबद्विः' (6 / 1 / 24) इत्यनेनाण् लुप्यते / सुशोभना गौः सुगौः / सुगौः प्रिया यस्य सः सुगौप्रियः / राज्ञः कुमारी राजकुमारी / राजकुमारी प्रिया यस्य स राजकुमारीप्रिय इत्यादौ तु यद्यपि गौशब्दान्तं याद्यन्तं च नाम अन्यपदार्थे गुणीभूतं तथापि तदपेक्षया न अन्त्यत्वम् / यदपेक्षया वान्त्यत्वम् तदपेक्षया गौणत्वं नहि इति न ह्रस्वः ‘इयमवचूरिर्गोकुलं कन्यापुरं कुमारीप्रियः इत्यस्याने ज्ञातव्या / प्रियगौः गामिच्छति क्यन् / गव्यतीति विप् / 'य्वोः प्वय् व्यञ्जने लुक्' (4 / 4 / 121) इत्यनेन यकारो लुप्यते / ततः क्किप्लोपः / प्रिया गौरस्य प्रियगौः / प्रियकुमारी चैत्रः / कुमारीमिच्छति क्यन् / कुमारीयतीति किम् / यलोपः प्राग्वत् / प्रियश्चासौ कुमारी च प्रियकुमारी। गोकुलमित्यादिषु गोशब्दो ड्याद्यन्तं च पदं समासार्थे न्यग्भूतत्वात् गौणम् / बह्वयः कुमार्यो यत्र ग्रामे बहुकुमारीको ग्रामः / 'ऋन्नित्यदितः' (7 / 3 / 171) इति सूत्रेण.कच् / पूर्वापराधरोत्तरमभिन्नेनांशिना' (3 / 1 / 52) इति सूत्रे अंशितत्पुरुषलक्षणं वक्ष्यते / अर्द्धपिप्पलीत्यत्र ‘समेंऽशेऽर्द्धं नवा' (3 / 1 / 54) इति सूत्रेण अंशितत्पुरुषः / तुर्यं भिक्षाया इति वाक्ये तुर्यभिक्षा इत्यत्र ‘द्वित्रिचतुर०' (3 / 1 / 56) इत्यादिनांशिसमासः // 96 / /