________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः 203 ____ बिल्वादीनां कीयप्रत्ययान्तानां दशानां शब्दानामीयस्य तद्धितयस्वरे लुक् स्यात् / अनातीति नानुवर्तते। आतोऽसम्भवात् / बैल्वकाः / वैणुकाः // 13 // ____ अ. 'नडादेः कीयः' (6 / 2 / 92) इति तद्धितद्वितीयपादे नडादिगणप्रान्ते बिल्व वेणु वेत्र वेतस त्रि तक्षन् इक्षु काष्ठ कपोत कुञ्च 10 इति दशशब्दा बिल्वादिगणः / बिल्वाः सन्त्यस्यां इति बिल्वकीया / तस्यां नद्यां भवा बेल्वकाः ‘भवे' (6 / 3 / 123) इत्यण् / ततो 'बिल्वकीयादेरीयस्य' इत्यनेन कीयप्रत्यय ईय इति अवयवो लुप्यते / वैल्वका इति सिद्धम् / एवं वेणवः सन्त्यस्यां वेणुकीया नाम नदी / 'नडादेः कीयः' (6 / 2 / 92) वेणुकीयायां भवा वैणुका ‘भवे' अण् / सूत्रेण [ई]य लुप्यते / वैणुकाः / / 13 / / न राजन्यमनुष्ययोरके // 2 / 4 / 94 // राजन्यमनुष्ययकारस्याकप्रत्यये परे लुक् न स्यात् / राजन्यकम् मानुष्यकम् // 9 // अ० 'न राजन्यमनुष्ययोरके' इदं सूत्रं तद्धितयस्वरेऽनाति' (2 / 4 / 92) इत्यनेन यलोपे प्राप्ते यलोपप्रतिषेधाय कृतम् / राजन्. राज्ञोऽपत्यं राजन्यः / 'जातौ राज्ञः' (6 / 1 / 92) इति सूत्रेण यप्रत्ययः राजन्यः / मनुः / मनोरपत्यानि मनुष्याः ‘मनोर्याणौ षश्चान्तः' (6 / 1 / 94) इति सूत्रेण यप्रत्ययः / षोऽन्तश्च / राजन्यानां समूहो राजन्यकम् / मनुष्याणां समूहो मानुष्यकम् / ‘गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ्' (6 / 2 / 12) इति अकञ् // 94 // .. . ङ्यादेगौणस्याऽकिपस्तद्धितलुक्यगोणीसूच्योः // 2 / 4 / 95 // ड्यादेः प्रत्ययस्य गौणस्याकिबन्तस्य तद्धितलुकि सति लुक् स्यात् / गोणीसूच्योर्न भवति / सप्तकुमारः पञ्चेन्द्रः पञ्चाग्निः [डीः] पञ्चयुवा [तिः] त्रिकरभोरुः [ऊङ्] कुलवम् [डीः] बदरम् [डीः] आमलकम् [डीः] / गौणस्येति किम् ? कुन्ती अवन्ती कुरूः [अत्र हि तद्धितलुकि कृते पश्चात् डीऊङ् जातः इति न गौणत्वम्] / अकिप इति किम् ? पञ्चकुमारी / तद्धितलुकीति किम् ? औपगवीत्वम् / कथं हरीतकी ? अत्र लुबन्तस्य स्त्रीत्वात्पुनर्गौरादित्वाद् डीः / अगोणीसूच्योरिति किम् ? पञ्चगोणिः छाटी / पञ्चसूचिः // 95 // - अ० ङी आप् ति ऊङ् एते ङ्यादयः / सप्तकुमार्यो देवताऽस्य सप्तकुमारः 'देवता' (6 / 2 / 101) इति सूत्रेण अण् लुप्यते ‘ड्यादेhणस्य०' इति डीलोपः / तथा इन्द्रस्य भार्या इन्द्राणी 'वरुणेन्द्ररुद्र०' (2 / 4 / 62) इत्यादिना डीः, आन् आगमश्च, इन्द्राणी, पञ्चेन्द्राण्यो देवताऽस्य पञ्चेन्द्रः / अत्रापि ङीलुक्, डीनिवृत्तौ आन् आगमोऽपि निवर्त्तते पञ्चेन्द्र इति रूपम् / अग्नेर्भार्या आग्नायी 'पूतक्रतुवृषाकप्यग्नि०' (2 / 4 / 60) इति ङी), ऐ अन्त्यादेशः अग्नायी, पञ्चाग्नाय्यो देवताऽस्य 'देवता' (6 / 2 / 101) अण् ‘द्विगोरन०' (6 / 1 / 24) इति अण्लोपः / ‘ड्यादे०' डीलुक् / डीनिवृत्तौ ऐ आदेशोऽपि निवृत्तः पञ्चाग्निः इति सिद्धम् / तथा पञ्चयुवा-युवन् / 'यूनस्तिः (2 / 4 / 77), पञ्चभिर्युवतिभिः क्रीतः पञ्चयुवा / 'मूल्यैः क्रीते' (6 / 4 / 150) इति इकण् / 'अनाम्न्यऽद्विः प्लुप्' (6 / 4 / 141) इत्यनेन इकण् लुप्यते / ततो 'ड्यादे०' इत्यनेन तिप्रत्ययो लुप्यते, पञ्चयुवा इति सिद्धम् / करभ इव ऊरू यस्याः सा 'उपमानसहित०' (2 / 4 / 75) इति ऊङ् / तिसृभिः करभोरुभिः क्रीतः / 'मूल्यैः क्रीते' इकण् / 'अनाम्न्य०' इति लुप् तंतो 'ङ्यादे' रित्यनेन ऊङ्लोपः / कुवल्या विकारोऽवयवो वा कुबलम् / बदर्या विकारोऽवयवो वा बदरम् / उभयत्र 'हेमादिभ्योऽञ्' (6 / 2 / 45) इति सूत्रेण अञ् / आमलक्या विकारोऽवयवो वा आमलकम् / 'दोरप्राणिनः'