________________ 202 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते सूर्यागस्त्ययोरीये च // 2 / 4 / 89 // अनयोर्यकारस्य यां ईये च परे लुक् स्यात् / सूरी / सौरी प्रभा / आगस्ती / आगस्तीयः // 89 // अ० सूर्यस्यादित्यस्य मनुष्यस्य वा भार्या मानुषी सूरी / भगवतोऽपि हि सूर्यस्य वरप्रदानेन मानुषी या भार्या सा सूरी, इत्युच्यते ‘धवाद्योगा०' (2 / 4 / 59) इति ङीः / 'सूर्यागस्त्यः ' इति यलोपः / सौरी प्रभा-सूर्यस्येयं सौरी 'तस्येदम्' (6 / 3 / 160) इति सूत्रेणाण 'अणजेये' इति ङीः / अगस्त्यस्येयं आगस्ती / 'तस्येदम्' आगस्तीयः / एवं सौरीयः / अगस्त्यो देवता अस्य 'देवता' (6 / 2 / 101) इति सूत्रेणाण् / तत आगस्तस्यायं आगस्तीयः, सौर्यस्यायं सौरीयः इति वाक्ये 'दोरीयः' (6 / 3 / 32) इति सूत्रेण ईयप्रत्ययः / ततः 'सूर्यागस्त्य.' इति यलोपः / / 89 // तिष्यपुष्ययोर्भाणि // 2 // 4 // 9 // भस्य नक्षत्रस्य सम्बन्धिन्यणि परे तिष्यपुष्ययकारस्य लुक् [स्यात् / तैषी रात्रिः, तैषमहः / पौषी रात्रिः, पौषमहः / तेषः पौषः संवत्सरः / भाणीति किम् ? [तिष्यो देवताऽस्य] तैष्यश्वरुः // 90 // ___ अ० भस्य नक्षत्रस्य सम्बन्धी अण् भाण् / तस्मिन् / तिष्यनाम्ना नक्षत्रेण चन्द्रयुक्तेन युक्ता रात्रिः तैषी रात्रिः / तिष्येण चन्द्रयुक्तेन (युक्तं) अहो दिनं तैषं अहः / एवं पौषी रात्रिः, पौषमहः / 'भर्तुसन्ध्यादेरण' (6 / 3 / 89) इति सूत्रेणाण् / 'अणजेये.' (2 / 4 / 20) इति ङीः / 'तिष्यपुष्ययोर्भाणि' इति यलोपः / पुष्यनक्षत्रस्य तिष्यसिध्यशब्दौ वाचकौ / अहन् / सिः / 'अनतो लुप्' (1 / 4 / 59) 'रो लुप्यरि' (2 / 1 / 75) नस्य रः / पुष्येण तिष्येण वा उदितगुरुणा युक्तः संवत्सरः पौषः तैषः संवत्सरः / 'उदितगुरो युक्तेऽब्दे' (6 / 2 / 5) इति सूत्रेणांण् // 10 // आपत्यस्य क्यच्छ्योः // 2 // 4 // 91 // , व्यञ्जनात्परस्यापत्ययकारस्य क्ये च्वौ च परतो लुक् स्यात् / गार्गीयति गार्गीयते / चि. गार्गीभूतः // 91 // अ० नन्, 'पत्लू पथे गतौ', न पतन्ति येन जातेन पूर्वजास्तदपत्यं 'गर्गादेर्यञ् (6 / 1 / 42) गार्ग्यः / गार्ग्यमिच्छति क्यन् गार्गीयति, गार्ग्य इवाचरति क्यङ् गार्गीयते, अगार्यो गार्यो भूतो गार्गीभूतः ‘कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः' (7 / 2 / 126) // 91 / / / तद्धितयस्वरेऽनाति // 2 / 4 / 92 // व्यञ्जनात्परस्यापत्ययस्य [यकारस्य] कारादौ अकारादिवर्जितस्वरादौ च तद्धिते परे लुक् स्यात् / गार्ग्यः। गार्गकम् / गार्गीयः / आपत्यस्येत्येव-काम्पील्यकः / तद्धितेति किम् ? गार्येण / यस्वर इति किम् ? गार्यरूप्यः / अनातीति किम् ? गाायणः // 92 // __ अ० न आत् अनात् / तस्मिन् / गार्ये साधुः 'तत्र साधौ' (7 / 1 / 15) इति यप्रत्ययः गार्ग्यः / गार्याणां समूहो गार्गकम् ‘गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजन्यराजपुत्रादकञ्' (6 / 2 / 12) अकञ् / गार्ग्य [स्यायं शिष्यश्चेत्] / 'दोरीयः' (6 / 3 / 32) गार्गीयः / कम्पीलेन निर्वृत्तं 'सुपन्थ्यादेर्व्यः' (6 / 2 / 84) इति ज्यः / प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् (6 / 3 / 43) इति सूत्रेण अकत्र काम्पील्यकः / गार्यादागतः 'नृहेतुभ्यो रूप्यमयटौ वा' (6 / 3 / 156) इति रूप्यप्रत्ययः / गार्ग्यस्यापत्यं युवा गाायणः / 'यञिञः' (6 / 1 / 54) इति सूत्रेण आयनण् / / 92 / / बिल्वकीयादेरीयस्य // 2 / 4 / 93 //