________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः 201 बन्धुः // 84 // अ० 'बन्धौ बहुव्रीहौ' इत्यत्रापि सूत्रे पूर्वसूत्रवत् कौमुदगन्ध्याबन्धुकुलः इति केवल इत्येवति व्यावृत्तेरुदाहरणं ज्ञेयम् / यदा कौमुदगन्ध्या बन्धुरस्य कौमुदगन्धीबन्धुः कुलमस्य कौमुदगन्धीबन्धुकुलः इति विग्रहः तदा ईच् भवत्येव / मुख्य इत्येव-अतिक्रान्तः कौमुदगन्ध्यां / अतिकौमुदगन्ध्या बन्धुरस्य अतिकौमुदगन्ध्याबन्धुः / कौमुदगन्ध्या बन्धुरस्य कौमुदगन्ध्याबन्धुः परमा चासौ कौमुदगन्ध्या च परमकौमुदगन्ध्या बन्धुरस्य // 84 / / मातमातृमातृके वा // 2 / 4 / 85 // मुख्य आबन्तः ष्यो मातादिषु केवलेषु परेषु बहुव्रीहौ वा ईच् स्यात् / कारीषगन्धीमातः कारीषगन्ध्यामातः / कारीषगन्धीमाता कारीषगन्ध्यामाता / कारीषगन्धीमातृकः कारीषगन्ध्यामातृकः / ['ऋन्नित्यदितः' (7 / 3 / 171) इति कच्] मात इति निर्देशान्मातृशब्दस्य पुत्रप्रशंसामन्त्र्यमन्तरेणापि पक्षे मात आदेशः / अन्यथा मातृशब्देनैव गतत्वान्मातशब्दोपादानमनर्थकं स्यात् / मातृमातृकशब्दयोश्च भेदेन ग्रहणात् ऋदन्तलक्षणः कच् प्रत्ययोऽपि विकल्पात् / / 85 // अ० कारीषगन्ध्यामाता यस्य पुत्रस्य स कारीषगन्धीमातः कारीषगन्ध्यामातः / अत्र 'मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्र्ये' (1 / 4 / 40) इत्यत्र पुत्रस्य आमन्त्र्ये सति मातृशब्दस्य मात इति आदेश उक्तोऽस्तिः / अत्र च 'मातमातृमातृके वा' सूत्रे मातइति निर्देशात् पुत्रामन्त्र्यं विनापि सूत्रबलात् मात इत्यादेशः पूर्वद्वयोदाहरणे सञ्जातः / एतदेव मात इति निर्देशादि अक्षरैर्वृत्तिकृद्दर्शयति / ऋदन्तलक्षण इत्यादि ‘ऋन्नित्यदितः' (7 / 3 / 171) इति सूत्रेण नित्यं कच् विहितोऽस्ति / परं मातृमातृक इति पाठबलात् विकल्पेन कचं भवतीत्यर्थः / / 85 / / अस्य ड्या लुक // 2 // 4 // 86 // ङीप्रत्यये परे पूर्वस्याऽकारस्य लुक् स्यात् / कुरुचरी // 86 // अ० कुरुषु चरतीति 'चरेष्टः' (5 / 1 / 138) 'अणजेये.' (2 / 4 / 20) इति ङीः // 86 // मत्स्यस्य यः // 2 / 4 / 87 // मत्स्यसम्बन्धियकारस्य यां लुक् स्यात् / मत्सी / [गौरादिभ्यो ङीः] // 87 // अ० मत्स्यो नाम कश्चित् / तस्यापत्यं स्त्री / इञ् प्रत्ययः / गौरादित्वात् ङी / ततो ञकारलोपः / मत्सी इति सिद्धम् / / 87|| व्यञ्जनात्तद्धितस्य // 2 // 4 // 88 // . व्यञ्जनात्परस्य तद्धितयकारस्य ङ्यां लुक् [स्यात्] / मनुषी, गार्गी, सौमी दिक्, औचिती, चातुरी। व्यञ्जनादिति किम् ? कारिकेयी / तद्धितस्येति किम् ? वैश्यी // 8 // * अ० मनोरपत्यं स्त्री मनुषी / 'मनोर्याणौ षश्चान्तः' (6 / 1 / 94) इति सूत्रेण यप्रत्ययः / षोऽन्तश्च / 'गौरादिभ्यो मुख्यात् ङीः' (2 / 4 / 19) ततो 'व्यञ्जनात्तद्धितस्य' इति यप्रत्ययो लुप्यते / एवं गार्गी / तथा सोमो देवताऽस्याः / 'कसोमात् ट्यण्' (6 / 2 / 107) इति ट्यण् / 'अणञये.' (2 / 4 / 20) इति ङीः / उचितस्य भावः औचिती / चतुरस्य भावः कर्म वा 'पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (7 / 1 / 60) इति ट्यण् / 'अणजेये०' (2 / 4 / 20) इति ङीः / कारिकाया अपत्यं कारिकेयी / वैश्यस्य भार्या वैश्यी ‘धवाद्योगाद०' (2 / 4 / 59) इति डीः // 88 / /