________________ 200 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते चैकयत चैटयत बैल्वयत सैकयत एतेऽणन्ताः / इति क्रौड्यादिगणः / बहुवचनमाकृतिगणार्थम् / तथा क्रोडस्यापत्यं क्रौडिः / 'क्रौड्यादीनाम्' इति ध्यादेशः / क्रौड्याया अपत्यं क्रौडेयः ‘ड्याप्त्यूडः' (6 / 1 / 70) इत्यनेन एयण् / 'तद्धितयस्वरेऽनाति' (2 / 4 / 92) इति सूत्रेण ध्यादेशयकारस्य लोपः / ततः क्रौडेय इति सिद्धम् // 8 // भोजसूतयोः क्षत्रियायुवत्योः // 2 / 4 / 81 // भोजसूतशब्दयोरन्तस्य यथासङ्ग्यं क्षत्रियायुवत्योर्वाच्ययोः ष्यः स्यात् / भोज्या / भोजवंशजा क्षत्रिया। सूत्या-प्राप्तयौवना मानुषीत्यर्थः / क्षत्रियायुवत्योरिति किम् ? भोजा / सूता // 81 // ___ अ० भोजः पुरुषः / स्त्री चेत् भोज्या / सूतस्तरुणः, स्त्री चेत् सूत्या / सूतः सारथिः, तस्य सम्बन्धिनी युवतिरेव सूत्या, नान्या इति केचिदाहुः // 81 / / दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धेर्वा // 2 // 4 // 82 // एषामिञन्तानां स्त्रियामन्तस्य प्यः स्यात्, वा / इअन्तमात्रनिर्देशात् पौत्रादौ प्राप्ते प्रथमापत्यादौ तु अप्राप्ते विभाषा। दैवयज्या दैवयज्ञी। शौचिवृक्ष्या शौचिवृक्षी। सात्यमुग्न्या सात्यमुग्री। काण्ठेविद्धया काण्ठेविद्धी // 2 // अ० देवयज्ञस्यापत्यं, शुचिवृक्षस्यापत्यं, सत्यमुग्रं यस्य स तथा / अत एव निर्देशात् मोऽन्तः / मान्तमव्ययं वा / सत्यमुग्रस्यापत्यम् / कण्ठेविद्धस्यापत्यम् / सर्वत्र ‘अत इञ्' (6 / 1 / 31) / यत्र ष्यादेशः तत्र आप् / पक्षे 'नुर्जातेः' (2 / 4 / 72) इत्यनेन ङीः / / 82 / / घ्या पुत्रपत्यो केवलयोरीच् तत्पुरुषे // 2 / 4 / 83 // मुख्य आबन्तः ष्यः पुत्रपतिशब्दयोः केवलयोः परयोस्तत्पुरुषे ईच् स्यात् / चकारो 'वेदूतः०' (2 / 4 / 98) इत्यादौ विशेषणार्थः / कारीषगन्धीपुत्रः कारीषगन्धीपतिः। ष्येति किम् ? इभ्यापुत्रः क्षत्रियापुत्रः। पुत्रपत्योरिति किम् ? कारीषगन्ध्याकुलम् / केवलयोरिति किम् ? कारीषगन्ध्या पुत्रकुलम् / तत्पुरुष इति किम् ? कारीषगन्ध्यापतिरयं ग्रामः // 83 // __ अ० आप् अन्ते यस्य आबन्तः / आबन्तश्चासौ ष्यश्च-ष्यप्रत्ययः / मुख्यश्चासावाबन्तष्यश्च / मुख्यः आबन्तश्च ईदृग् ष्यः ईच् भवति / ष्यास्थाने ईच् भवतीत्यर्थः / 'वेदूतोऽनव्ययय्वृदीच् डीयुवः पदे' (2 / 4 / 98) इति वक्ष्यमाणसूत्रे कार्यं ज्ञापयिष्यते / करीषस्येव गन्धोऽस्य करीषगन्धिः / 'वोपमानात्' (7 / 3 / 147) इति इत्समासान्तः / करीषगन्धेरपत्यं स्त्री कारीषगन्धः / ‘डसोऽपत्ये (6 / 1 / 28) अण् / ततः ‘अनार्षे वृद्धेऽणिञौ बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः' (2 / 4 / 78) इत्यनेनाणः ष्यादेशः / 'आत्' (2.4 / 18) इत्याप् / कारीषगन्ध्यायाः पुत्रः पतिर्वा इति वाक्ये 'ष्यापुत्रः' इत्यनेन ष्या इत्यस्य स्थाने ईच् / कारीषगन्धीपुत्रः / एवं कौमुदगन्धीपुत्रः, परमकारीषगन्धीपतिः पुत्र इत्यादि ज्ञेयम् / इभमर्हति ‘दण्डादेर्यः' (6 / 4 / 178) इति यः / कारीषगन्ध्यापुत्रकुलं इति पुत्रस्य कुलं पुत्रकुलम् / कारीषगन्ध्यायाः पुत्रकुलं कारीषगन्ध्यापुत्रकुलम् / अत्र कुलसहितः पुत्रः इति न ईच् / तथा कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपुत्रः / ततः कुलशब्दः / कारीषगन्धीपुत्रस्य कुलम् / यदा त्वेवं समासस्तदा ईच् भक्त्येव कारीष. गन्धीपुत्रकुलमिति प्रयोगः / कारीषगन्ध्या पतिरस्य इति बहुव्रीहिः // 83 // बन्धौ बहुव्रीहौ // 2 / 4 / 84 // मुख्य आबन्त प्यो बन्धुशब्दे केवले परे बहुव्रीहौ ईच् स्यात् / कौमुदगन्धीबन्धुः / परमकौमुदगन्धी