________________ 199 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः - अनार्षे वृद्धे विहितौ यावणिञौ प्रत्ययौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्त्यस्य ष्य इत्यादेशः स्यात्, स्त्रियाम् / कारीषगन्ध्या दैवदत्त्या / एवं वाराह्या / अनार्ष इति किम् ? वासिष्ठी / वैश्वामित्री। वृद्ध इति किम् ? वाराही आहिच्छत्री / बहुस्वरेति किम् ? दाक्षी / गुरूपान्त्यस्येति किम् ? औपगवी। खियामित्येव-कारीषगन्धः, वाराहिः [पुमान्] / मुख्यस्येत्येव-निर्वाराहिः / पित्करणं ष्यापुत्रपत्योरित्यत्र विशेषणार्थम् // 7 // . अ० बहवः स्वरा यत्र नामान्ते सः / गुरुरुपान्त्यो यत्र नामान्ते सः / बहुस्वरगुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति / गुरुग्रहणं हि दीर्घपरिग्रहार्थं संयोगपरिग्रहणार्थं च / अन्यथा दीर्घोपान्त्यस्य इत्युच्येत / कारीषगन्ध्या -करीषः अग्रे गन्धः, करीषस्येव गन्धोऽस्य स करीषगन्धिः / 'वोपमानात्' (7 / 3 / 147) इति सूत्रेण इत्समासान्तः / करीषगन्धेरपत्यं पौत्रादि स्त्री 'डसोऽपत्ये' (6 / 1 / 28) अण् / तदनन्तरं 'अनार्षे वृद्धे०' इत्यनेन तद्धितप्रत्ययस्य स्थाने ष्य इत्यादेशः / आप् / एवं कौमुदगन्ध्या / देवदत्तस्यापत्यं पौत्रादि स्त्री 'अत इञ्' (6 / 1 / 31) इञ् / वराहस्यापत्यं वृद्धं 'अत इञ्' / एवं बालाक्या / वसिष्ठस्यापत्यं 'ऋषिवृष्ण्यन्धककुरुभ्यः' (6 / 1 / 61) इति सूत्रेण अण् / तथा विश्वं मित्रमस्य विश्वामित्रः / 'ऋषौ विश्वस्य मित्रे' (3 / 2 / 79) इति सूत्रेण विश्व इत्यस्य दीर्घः / विश्वामित्रस्यापत्यं 'ऋषिवृष्ण्यन्धककुरुभ्यः' (6 / 1 / 61) इत्यण् / 'अणजेये.' (2 / 4 / 20) इति ङीः / वराहस्य प्रथमापत्यं स्त्री वाराही / ‘डसोऽपत्ये' (6 / 1 / 28) अण् / अहिच्छत्रे जाता आहिच्छत्री / 'जाते' (6 / 3 / 98) इति सूत्रेण अण् 'अणजेये.' इति ङीः / करीषस्येव गन्धोऽस्य करीषगन्धः / करीषगन्धस्यापत्यं कारीषगन्धः / शोभनो धर्मोऽस्याः सा / 'द्विपदाद्धर्मादनू' (7 / 3 / 141) इत्यनेन अन् समासान्तः / 'ताभ्यां वाप डित्' (2 / 4 / 15) डाप् / सुधर्मा / सुधर्माया अपत्यं 'अदोर्नदीमानुषी नाम्नः' (6 / 1 / 67) इति सूत्रेण अण् / डापोऽभावे तु ‘डसोऽपत्ये (6 / 1 / 28) इति अण् / सौधर्मणी (सौधर्मी ?) इति प्राप्नोति / अत्र ष्यादेश ‘अनार्षे वृद्धे०' इत्यनेन कथं न भवतीति पराशयः / सूरिराह-गौरादिपाठात् डीरेव भवति न ष्यः / एवं आयस्थूणी भौलिङ्गी / आलंबी। कालम्बी इत्यादि / एषाऽवचूरिनिर्वाराहि इत्यस्याग्रे ज्ञातव्या / बहुस्वरेत्यादि ष्य अधिकारसूत्राणि // 78 // . कुलाख्यानाम् // 2 // 4 // 79 // - पुणिकभुणिकमुखराद्याः कुलाख्याः शब्दाः। कुलाख्यानामनार्षवृद्धाणिजन्तानामन्तस्य स्त्रियां ष्यो भवति / भवहुस्वरागुरूपान्त्यार्थं वचनम् / पौणिक्या मौखर्या / वृद्ध इत्येव-पौणिकी। अनार्ष इत्येव-गौतमी // 79 // अ० कुलमाख्यायते आभिरिति कुलाख्याः ‘स्थादिभ्यः कः' (5 / 3 / 82) बाहुलकात् स्त्रीत्वम् / पुणिकस्यापत्यं पौत्रादि स्त्री / मुखरस्यापत्यं 'अत इञ्' (6 / 1 / 31) गौतमस्यापत्यं 'ऋषिवृष्ण्यन्धककुरुभ्यः' (6 / 1 / 61) इत्यनेन अण् // 79 / / क्रौड्यादीनाम् // 2 / 4 / 80 // क्रौडि इत्यादीनामणिजन्तानामन्तस्य स्त्रियां ष्यः स्यात् / [क्रोडस्यापत्यं क्रौडिः स्त्री] क्रौड्या / लाड्या / प्यस्यादेशत्वात् क्रौडेयः चौपयतेन इत्यादिष्वापत्यस्य यस्य लोपः सिद्धः // 8 // ___अ० अबहुस्वरागुरूपान्त्यार्थश्चारम्भः / क्रौड्यादीनामित्ययमारम्भः / क्रौडि लाडि व्याडि आपक्षिति आपिशलि सौधातकि भौरिकि भौलिकि शाल्मलि शालास्थलि कापिष्ठलि रौढि दैवदत्ति याज्ञदत्ति इत्यादय इञन्ताः / चौपयत 1. 'नोऽपदस्य तद्धिते' / 74 / 61 / इति अनेन अन्त्यस्वरादिलोपात् एतत्प्रयोगो योग्योभाति /