________________ 198 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते याधिकारसूत्रम् / कुरुः / कुरोरपत्यं स्त्री कुरू: 1 / 'दुनादिकुर्वित्कोशला०' (6 / 1 / 118) इति ज्यः 2 / 'कुरोपि (6 / 1 / 122) इति सूत्रेण ज्यो लुप्यते 3 / तत 'उतोऽप्राणिन०' ऊङ् 4 / इक्ष्वाकोरपत्यं 'राष्ट्रक्षत्रियात्सरूपा०, (6 / 1 / 114) अञ् / 'द्रेरञणोऽप्राच्य०' (6 / 1 / 123) इति अञ् लुप्यते / तत ऊङ् / कुरू: इक्ष्वाकूः इत्यस्यागे ब्रह्मबन्धूः-ब्रह्मा बन्धुरस्या जातेस्सा ब्रह्मबन्धूः / जात्येव ब्राह्मण इत्यर्थः / अत्र उङः पूर्वं शेषाद्वा' (7 / 3 / 175) इति सूत्रेण परोऽपि कच् प्रत्ययो न भवति तत्र बहुलाधिकारात् / कथं तर्हि भीरु गतं निवर्त्तते इति / भीरुशब्दस्य हि जातिवाचित्वाजातिलक्षणस्य ऊडोऽभावे सम्बोधने ओत्वं प्राप्नोति / भीरो इति प्रयोगः प्राप्नोति / भीरु इनि च अङि सति भवति / ऊङ् प्राप्नोतीति पराशयः / नैवम् / ताच्छीलिकप्रत्ययानां संज्ञाप्रकारत्वान्मनुष्यजातिवचन भवति / इति ऊङ् भवति / ततः सिः ह्रस्वश्च / इयमवचूरिहनु इत्यक्षराग्रे ज्ञातव्या // 73 / / बाह्वन्तकद्रुकमण्डलोर्नाम्नि // 2 // 4 // 74 // बाहुशब्दान्तात् कद्रुकमण्डलुभ्यां च नाम्नि विषये स्त्रियामूङ् प्रत्ययः स्यात् / [मद्रो भद्रो वा बाहू यस्याः सा तथा] मद्रबाहूः भद्रबाहूः / कद्रूः कमण्डलूः / संज्ञा एताः / नाम्नीति किम् ? [वृत्तौ बाहू अस्यां वृत्तबाहुः वृत्तबाहुः // 74 // उपमानसहितसंहितसहशफवामलक्ष्मणायूरोः // 2 // 4 // 7 // ___ उपमानादिपूर्वपदादूरुशब्दात् स्त्रियामूङ् स्यात् / [करभ इव ऊरू यस्याः सा] करभोरूः सहितोरूः संहितोस. सहोरूः शफोरूः वामोरूः लक्ष्मणोरूः / उपमानाद्यादेरिति किम् ? वृत्तोरुः पीनोरुः // 5 // ___ अ० संहितावूरू यस्याः सा संहितोरू: सहितोरूः / 'समस्ततहिते वा' (3 / 2 / 139) इति सूत्रेण विकल्पेन समो मकारस्य लोपः / सहविद्यमानावूरू / सफौ सदोषावूरू यस्याः / / 75 // नारीसखीपश्वश्रू // 2 // 4 // 76 // [तालव्यशकारद्वयम्] ___ एते शब्दाः स्त्रियां उयन्ता ऊऊन्ताश्च निपात्यन्ते / नृनरयोङा नारादेशः / नारी / सखी / पङ्गः / [पङ्गु (शब्दात्) ऊङ् अत्रिलिङ्गतया] / श्वशुरशब्दाजातिलक्षणे धवयोगलक्षणे च ङीप्रत्यये प्राप्ते ऊङ् / उकाराकारयो. लॊपश्च / श्वश्रूः // 76 // ___ अ० निपातनात् डीः / नृशब्दस्य नरस्य वा नारी / सखिशब्दात् अथवा सखशब्दात् निपातनात् ङीः सखी इति प्रयोगः / सह खेन वर्त्तते या सापि सखी / अथवा निपातनबलात् धवयोगेऽपि सख्युः स्त्री सखी इति प्रयोगो भवति / श्वश्रूरित्यत्र द्वावपि शकारौ तालव्यौ // 76 / / यूनस्तिः // 2477 // युवन्शब्दात् स्त्रियां तिप्रत्ययः स्यात् / युवतिः / कथं युवती ? यौतेरौणादिककिदतिप्रत्ययान्ताद् डीभविष्यति / मुख्यादित्येव-अतियूनी // 77 // अ० युवा पुरुषः / स्त्री चेत् युवतिः / नकारान्तत्वाद् ङी प्रत्यये प्राप्ते तदपवादो योगः / 'युक् मिश्रणे' यु / 'योः कित्' (उ० 658) इत्युणादिसूत्रेण अतिप्रत्ययः / स च कित् / उव् आदेशः / ‘इतोऽक्त्यर्थात्' (2 / 4 / 32) इति ङीः / युवती सिद्धम् / युवानमतिक्रान्ताऽतियूनी / 'श्वन्युवन्मघोनो०' (2 / 1 / 106) इति वस्य उत्वम् // 77|| अनार्षे वृद्धेऽणिौ बहुस्वरगुरूपान्त्यस्यान्तस्य ष्यः // 2 / 478 //