________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः नान्वाचीयमानेन डायना सह, अत एव सूत्रार्थे डीर्वा स्यात् / ङीयोगे डायन् इत्युक्तमिति भावः / अवटस्यामपत्यं वृद्धं स्त्री ‘गर्गादेर्यञ्” (6 / 1 / 42) // 69 / / कौरव्यमाण्डूकासुरेः // 2 // 4 // 70 // एभ्यः स्त्रियां ङीः / ङीयोगे डायन् चान्तः स्यात् / कौरव्यायणी माण्डूकायनी आसुरायणी // 70 // अ० 'कौरव्यमाण्डूकासुरे'रित्यत्रासुरिग्रहणात् ‘इञ इतः' (2 / 4 / 71) अत्र सूत्रे डायन् नानुवर्त्तते / अन्यथा इनन्तद्वारेणैव आसुरिशब्दात् ङीः सिद्धयति इति कौरव्यादिसूत्रेऽसुरिं न कुर्यात् / कौरव्यायणी कुरुः, कुरूणां राजा, कुरूणामपत्यं वा स्त्री कौरव्या इति वाक्ये 'दुनादिकुर्वित्कोशलाजादाञः' (6 / 1 / 118) इति सूत्रेण ञ्यप्रत्ययः, ततो ङी डायन्, कौरव्यायणी / मण्डूकस्यापत्यं 'पीलासाल्वामण्डूकाद्वा' (6 / 1 / 68) इति सूत्रेण (अण्) / असुरस्यापत्यं आसुरिः ‘बाह्यादिभ्यो गोत्रे' (6 / 1 / 32) इति सूत्रेण इञ् / ततो डीः, डायन्, अन्त्यस्वरलोपः // 70 // इञ इतः // 2 // 4 // 71 // इञ्प्रत्ययान्तानाम्न इकारान्तात् स्त्रियां ङीः स्यात् / सौतङ्गमी। मौनिवित्ती। इत इति किम् ? इनादेशात् प्यान्मा भूत्-वाराह्या // 7 // . अ० सुतङ्गमेन निर्वृत्ता सौतङ्गमी / मुनिवित्तेन निर्वृत्ता मौनिवित्ती / 'सुतङ्गमादेरिञ्' (6 / 2 / 85) इति सूत्रेण इन् / वाराह्या-वराह. वराहस्यापत्यं वाराहि / 'अत इञ्' (6 / 1 / 31) इत्यनेन इञ्, 'अनार्षे वृद्धेऽणिौ बहुस्वरगुरूपान्त्यस्यान्तस्य ष्यः' (2 / 4 / 78) इत्यनेन अन्तस्य ष्य इत्यादेशः / आप् / एवं वालाक्या कौमुदगन्ध्या // 71 / / नुर्जातेः // 2 // 4 // 72 // [नृ षष्ठी ङस्] नुमनुष्यस्य या जातिस्तद्वाचिन इकारान्तानाम्नः स्त्रियां ङीः स्यात् / कुन्ती दाक्षी / इत इत्येव विट् दरद् / जातेरिति किम् ? निष्कौशाम्बिः कन्या // 72 // अ० कुन्तिः / अवन्तिः / कुन्ते राजापत्यं वा / एवं अवन्ते राजाऽपत्यं वा अवन्ती / 'दुनादिकुर्वित्कोशलाऽजादाभ्यः'. (6 / 1 / 118) इत्यनेन व्यः / 'कुन्त्यवन्तेः स्त्रियाम्' (6 / 1 / 121) इति सूत्रेण ज्यो लुप्यते / पुनः कुन्ति अवन्ति इति शब्दौ / ततो ङीः / एवं दाक्षी // विट् / विशोऽपत्यं विट् / 'राष्ट्रक्षत्रियात्सरूपाद्राजाऽपत्ये दिरञ्' (6 / 1 / 114) इत्यनेन अञ्। 'द्रेरञणोऽप्राच्यभर्गादेः' (6 / 1 / 123) इत्यनेन अञ् लुप्यते / विश्शब्दः / सिः / 'यजसृजमृज०' (2 / 1 / 87) इति शस्य ष् / / दरद् इति नाम राजा / दरदां राजा / दरदोऽपत्यं वा / 'पुरुमगधकलिङ्गसूरमसद्विस्वरादण्' (6 / 1 / 116) इत्यनेन अण् / 'द्रेरञणोऽप्राच्यभर्गादेः' (6 / 1 / 123) इति अण् लुप्यते / दरद् / / 72 / / - उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊ // 2 // 4 // 73 // उकारान्तानृजातिवाचिनो प्राणिजातिवाचिनश्च नाम्नः स्त्रियां ऊप्रत्ययः स्यात् / युशब्दान्तं रज्ज्वादींश्च वर्जयित्वा / कुरूः इक्ष्वाकूः / अप्राणिनश्च-अलाबूः कर्कन्धूः / उत इति किम् ? वधूः / अप्राणिनश्चेति किम् ? आखुः / जातेरित्येव-पटुः चिकीर्षुः स्त्री। [शङ्कः-सङ्ख्याभेदः] [काकुः-स्वरभेदः] अयुरज्ज्वादिभ्य इति किम् ? अध्वर्युः स्त्री / रज्जुः हनुः / बहुवचनमाकृतिगणार्थम् // 73 // ___ अ० रज्ज्वादिगणः प्रयोगगम्योऽत एव बहुवचनम् / इयमाचार्यस्य शैली-यत्र सूत्रे एकवचनं आचार्यो निर्दिशति तत्रेदं ज्ञेयम्-गणशब्दानां नैयत्यम् / गणशब्दान् सङ्ख्या प्रयुङ्क्ते इति भावः / 'उतोऽप्राणिन०' इत्यादि उप्रत्य