Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 250
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः ... निन्धं कुत्सनैरपापाद्यैः // 3 // 11100 // निन्धवाचि नामैकार्थ पापादिवर्जितैः कुत्सनैर्निन्दाहेतुभिः सह समस्यते / तत्पुरुषः कर्मधारयश्च वैयाकरणश्चासौं खसूची च [वाक्यं] वैयाकरणखसूची / यः शब्दं पृष्टः सन्निष्प्रतिभत्वात् खं सूचयति स एवमुच्यते। याज्ञिककितवः मीमांसकदुर्दुरूढः [नास्तिकः] मुनिखेटः' ब्राह्मणचेलः ब्राह्मणब्रुवः मुनिधूतः कविचौरः पाखण्डिचाण्डालः / निन्यमिति किम् ? वैयाकरणश्चौरः / कुत्सनैरिति किम् ? कुत्सितो ब्राह्मणः / अपापावैरिति किम् ? पापवैयाकरणः इत्यादि / बहुवचनं प्रयोगानुसरणार्थम् // 10 // अ० अयाज्यानां यज्ञविधापनेऽनुचितानां शूद्रादीनां याज्यालोभात् यज्ञकारापणे य उत्साहयति स याज्ञिककितवः / अधमः / 'क्षत्रियभीरुः भिक्षुविटः राक्षसहतकः ब्राह्मणजाल्मः / ग्राम्यधृष्टः आरक्षितस्करः इति (च) प्रयोगाः / मुनिखेटोमधममुनिः / ब्राह्मणचेलो निन्द्यब्राह्मणः / एवं सर्वत्राधमता ज्ञातव्या मुन्यादीनाम् / / वैयाकरणश्चौरः / अत्रायं विशेषः / कुत्सितशब्दनैकट्यात् निन्द्यशब्दप्रवृत्तिनिमित्तकुत्सायां सत्यामयं समास इष्यते, न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते किं तर्हि ? तदाश्रयो द्रव्यं कुत्स्यते वैयाकरणत्वं तु तदुपलक्षणमात्रम् तेनात्र विशेषणसमास एव भवति / चौरवैयाकरणः खलवैयाकरणः / कुत्सितो ब्राह्मणः नहि ब्राह्मणः कुत्सनवाची किन्तु कुकर्मणा कुत्स्य एव / अत्र बहुलाधिकाराद्विशेषणसमासोऽपि न भवति कुत्सितो ब्राह्मण इति / एवं पापवैयाकरणः / आदिशब्दात् अणकवैयाकरणः / पापकुलालः अणकनापितः हतविधिः / एषु प्रवृत्तिनिमित्तमेव कुत्स्यते / कारणभूतव्याकरणशब्दस्य कुत्सितशब्दनैकट्यात् (प्रत्यासत्तेः) निन्द्यशब्दप्रवृत्तिनिमित्तकुत्सायामयं 'निन्धं कुत्सनैरपापाद्यैरि'ति समास इष्यते / दग्धदैवम् दुष्टामात्यः क्षुद्रतापसः इति / बहुवचनं प्रयोगानुसरणार्थम् / विशेष्यशब्दानां पूर्वनिपातार्थं 'निन्द्यं कुत्सनैस्पापाद्यैः' इति सूत्रं कृतम् // 100 // उपमानं सामान्यैः // 3 // 1 // 10 // उपमानोपमेययोः साधारणो धर्मः सामान्यम् / उपमानवाचिनामैकार्थं सामान्यवाचिनामभिः सह समस्यते / तत्पुरुषः कर्मधारयश्च / शस्त्रीय शस्त्री, शस्त्री चासौ श्यामा च शस्त्रीश्यामा 'मृगीव मृगी मृगी चासौ चपला च मृगचपला इत्यादि / अत्र शस्त्र्यादयः श्यामादयश्च शब्दाः श्यामादिकं गुणमुपादाय यदा उपमेये वर्त्तन्ते तदा एकार्था भवन्ति / एवं च पुंवद्भावोऽपि सिद्धो भवति / उपमानमिति किम् ? देवदत्ता श्यामा / सामान्यैरिति किम् ? अग्निर्माणवकः / गौर्वाहीकः // 10 // अ० उपमीयतेऽनेनेति उपमानं चन्द्रादिकम्, आदिशब्दात् न्यग्रोधश्चासौ परिमण्डला च इति न्यग्रोधपरिमण्डला शरकाण्डगौरी शुकहरिणी कुमुदश्येनी तडित् पिशङ्गी / कुम्भकपाललोहिनी हंसगद्गदा काकवन्ध्या इति / अग्निर्माणवकः गौर्वाहीकः / फालास्तन्दुला दीर्घत्वात् विशदत्वाद्वा फाला इव तन्दुला उच्यन्ते / सिद्धे इत्यध्याहार्यम् / पर्वता बलाहकाः / एषु 'विशेषणं विशेष्येणैकार्थं०' (3 / 1 / 96) अनेनैव समास उपमानोपमेययोः साधारणधर्मप्रतीत्यन्यथानुपपत्त्यैव पूर्वनिपाते च सिद्धे 'उपमानं सामान्यैरे'वेति नियमार्थमिदं वचनम् / तेन अग्निर्माणवक इत्यादौ विशेषणसमासोऽपि न भवति / अग्निमाणवकः गोवाहीक इति प्रयोगा न भवन्त्येव इति परमार्थः // 101 / / उपमेयं व्याघ्राद्यैः साम्यानुक्तौ // 3 / 1 / 102 // 1. अत्र शस्त्रीव शस्त्री, मृगीव मृगीति प्रदर्शनमुपमेये वृत्तिप्रदर्शनार्थम्, तत एव विशेषणविशेष्ययोः सामानाधिकरण्यं मृगीत्यस्य पुंवद्भावश्च सम्भवतीति दर्शयति / 2. एवश्चेत्यनन्तरं सिद्ध इत्यध्याहार्यम, एवञ्चैकार्थे सिद्धे सति पुंवद्भावोऽपि सिद्धो भवतीत्यर्थः /

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310