Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

View full book text
Previous | Next

Page 248
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 241 उत्पलं च नीलोत्पलम् / पुमांश्चासौ गौश्च पुङ्गवः 'गोस्तत्पुरुषात्' (7 / 3 / 105) इति सूत्रेण अट्समासान्तः / खञ्जः पङ्गुलः / कुण्टो हस्तहीनः / खञ्जश्चासौ कुण्टश्च कुण्टश्वासौ खञ्जश्च / एवं शुक्लश्चासौ कृष्णश्च / आदिशब्दात् पूर्वा चासावुत्तरा च पूर्वोत्तरा उत्तरपूर्वा / रविचारवशाद्दिश उच्यतेऽतोऽत्रापि गुणप्रवृत्तिनिमित्तम्, दक्षिणपूर्वा पूर्वदक्षिणा विदिक् / पाचकपाठकः पाठकपाचकः / कृष्णसर्पः आदिशब्दात् लोहितशालिः गौरखरः लोहिताहिः नरसिंहः पुरुषमृगः करिमकरः नकुलसर्पः कर्कुटसर्पः जातिविशेषवाचित्वान्नित्यसमासा एते // 96 / / पूर्वकालैकसर्वजरत्पुराणनवकेवलम् // 3 / 1197 // पूर्वकाल इत्यर्थनिर्देशः / पूर्वकालवाचि नाम एकादीनि नामानि चैकार्थानि परेण नाम्ना समस्यन्ते / तत्पुरुषः कर्मधारयश्च / 'पूर्वकालः सम्बन्धिशब्दत्वादपरकालेन / पूर्व स्नातः पश्चादनुलिप्तः [वाक्यम्] स्नातानुलिप्तः / एवं लिप्तवासितः / कृष्टमतीकृता भूमिः / एका शाटी [वाक्यं] एकशाटी / एकर्षयः [एकोऽन्यार्थः] / एकचौरः / एकधनुर्धरः [एकोऽद्वितीयार्थः] / सर्वशैलाः सर्वरात्रः सर्वान्नम् सर्वशुक्लः जरद्वः पुराणवैयाकरणः नवोदकम् केवलज्ञानम् / एकार्थमित्येव-स्नात्वानुलिप्तः // 97 // अ० पूर्वः कालो यस्यार्थस्य स पूर्वकालः / पूर्वकालश्च एकश्च सर्वश्च जरच्च पुराणश्च नवश्च केवलश्चेति द्वन्द्वः / पूर्वकालशब्दोऽपरकालेन कोऽर्थः ? पश्चात्कालेन सह सम्बन्धमपेक्षते इत्यर्थः / पूर्वं लिप्तः पश्चाद्वासितः लिप्तवासितः / तथा मतं लोष्टमर्दनकाष्ठमस्यास्तीति मता ‘अभ्रादिभ्यः' (7 / 2 / 46) इति सूत्रेण अप्रत्ययः / अमता मता कृता मतीकृता 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां०' (7 / 2 / 126) इत्यादिना च्विः / ततः पूर्वं कृष्टा पश्चान्मतीकृता कृष्टमतीकृता भूमिः / एवं छिन्नप्ररूढो वृक्षः / एकशब्दः सङ्ख्या-अन्य-असहाय-अद्वितीयेषु वर्त्तते / एषां यथाक्रमं उदाहरणानि एकशाटी शाटशब्देन सहानभिधानान समासः / एकः शाटः / सर्वशब्दो द्रव्य-अवयव-प्रकार-गुणानां कात्स्न्र्ये वर्त्तते / यथाक्रममुदाहरणानि सर्वशैला इति / केवलमसहायं ज्ञानं केवलज्ञानम् / स्नात्वा इति असत्त्ववाचिनः शब्दस्य अनुलिप्तपदेन सहानैकार्थ्यम् / 'विशेषणं विशेष्ये' (3 / 1 / 96) इति पूर्वेणैव सिद्धे पूर्वकालैक इति पुनर्वचनं 'स्पर्द्ध' (7 / 4 / 119) परमिति 'पूर्वनिपातस्य विषयप्रदर्शनार्थं तथा पूर्वापरकालवाचिनोरद्रव्यशब्दत्वात् अनियमे प्राप्ते पूर्वकालवाचिन एव शब्दस्य पूर्वनिपातार्थं च कृतमित्यर्थः / इयमवचूरिः २पूर्वकालेति प्रान्ते ज्ञेया / 'पूर्वनिपातस्य विषयेत्याद्यक्षराणामयं भावार्थः- 'पूर्वकालैके'ति सूत्रे ये शब्दा निहिताः सन्ति तेषां मिथः समासे सति सूत्रमध्ये यः शब्दोऽग्रे निहितोऽस्ति तस्य पूर्वं निपातो भवति / यश्च पूर्वं निर्दिष्टः स परतो भवति / स्पर्द्ध परं इति न्यायात् यथा केवलजरत् केवलपुराणमित्यादिषु / / 97|| दिगधिकं सज्ञातद्धितोत्तरपदे // 3 // 198 // दिग्वाचिनाम अधिकमिति नाम च एकार्थ परेण नाम्ना सह समस्यते, सञ्ज्ञायां तद्धितप्रत्ययविषयभूते उत्तरपदे च परतः / स च समासस्तत्पुरुषः कर्मधारयश्च / दक्षिणकोशलाः उत्तरकोशलाः दक्षिणपश्चालाः एवंनामानो देशाः / पूर्वेषुकामशमी / अपरेषुकामशमी एवंनामानो ग्रामाः / तद्धिते, दाक्षिणशालः औत्तरशालः / अधिकं, अधिकषाष्टिकः / अयमपि नित्यसमासः / नहि तद्धिते वाक्यमस्ति, तद्धितो हि नाम्न उत्पद्यते न तु समासारम्भकाद्वाक्यात् / उत्तरपदे दक्षिणगवधनः उत्तरगवधनः / संज्ञादिग्रहणं किम् ? उत्तरा वृक्षाः // 98 // _ अ०.दक्षिणाः कोशला दक्षिणकोशलाः / उत्तराः कोशला उत्तरकोशलाः / एवं दक्षिणपश्चालाः उत्तरपञ्चाला

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310