Book Title: Laghu Siddhant Kaumudi Part 01
Author(s): Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
Publisher: Motilal Banrassidas Pvt Ltd
View full book text
________________
तत्पुरुषः
Re
लुगुत्तरपदे । स्तोकान्मुक्तः । अन्तिकादागतः । श्रभ्याशादागतः ।
दूरादागतः । कृच्छ्रादागतः ।
६३१ 'षष्ठी २ । २ । ३७ ।
सुबन्तेन प्राग्वत् । `राजपुरुषः ।
६३२ पूर्वापराधरोत्तर मेकदेशिनैकाधिकरणे । २ । २ । १ ।
श्रवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्व ' कायस्य पूर्वकायः । अपरकायः । एकाधिकरणे किम् "पूर्वश्छात्राणाम् |
६३३ अ
नपुंसकम् २ । २ । २ ।
समांशवाच्यर्धशब्दो नित्यं क्लीवे स प्राग्वत् । अधं पिप्पल्याः, 'अर्ध
पिप्पली ।
६३४ सप्तमी शौण्डेः २ । १ । ४० ।
१- षष्ठ्यन्त समर्थेन सुबन्तेन समस्यते - इत्यर्थः । २ - राजपुरुषः - 'राजन् + ङस् पुरुष - सु' इत्यलौकिक विग्रहे 'षष्ठी' इत्यनेन समासे प्रातिपदिकत्वेम सुपो लुकि प्रन्तर्वर्तिनों लुप्तां विभक्तिमाश्रित्य पदत्वान्नलोपे समुदायात् पुनः सौ रुत्वे विसर्गे 'राजपुरुषः ' इति रूपं सिध्यति । ३ - प्रवयववाचकाः शब्दाः इत्यर्थः । ४ - पूर्वकाय, इत्यादौ 'षष्ठी' इति समासप्राप्तावपि सूत्रान्तरविधानं पूर्वादिशब्दस्य पूर्वनिपातार्थम् । श्रन्यथा 'मठो' इति समासशास्त्रे प्रथमानिद्दिष्टत्वेन षष्ठ्यन्तस्य ( कायादिशब्दस्य ) पूर्वनिपातः स्यात् । ५ - छात्राणां बहुत्वेन नात्राधिकरणैकत्वमिति न समासः । ६- पिप्पलीशब्दस्य षष्ट्यन्तत्वात् 'एकविभक्तावषष्ठ्यन्तवचनम्' इति उपसर्जनत्वाभावेन गोस्त्रियोरुपसर्जनस्येति न ह्रस्वः ।
सुबन्त
९३१ - पठ्यन्त का प्रातिपदिक सुबन्त के साथ समास होता है विकल्प से ९३२ - श्रवयवी के साथ पूर्वादि शब्द समस्त होते हैं यदि वह अवयवी एकत्व संख्या विशिष्ट हो ।
९३३ - नपुंसकलिंग में नित्य वर्तमान समांशवाची अर्ध शब्द श्रवयविवाचक समर्थ साथ समस्त होता है विकल्प से ।
के
६३४ - सप्तम्यन्त शब्द शौण्डादिक प्रकृतिक समर्थ सुबन्त के साथ समस्त होते हैं ।