________________
२८६
लघुसिद्धान्तकौमुद्याम् १०४६ इनण्यनपत्ये ६।४ । १६४ ।
अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन (६१६.) 'नस्तद्धिते' इति टिलोपो न युवतीनां समूहो-'यौवनम् ।
१०४७ ग्राम-जन-बन्धुभ्यस्तल ४ । २ । ४३ ।
तलन्तं स्त्रियाम् । ग्रामता । जनता । बन्धुता। (गजसहायाभ्यां चेति वक्तव्यम्) गजता । सहायता । (अह्नः खः क्रतौ) अहीनः ।
१०४८ अचित्त-हस्ति-"धेनोष्ठक ४ । २ । ४७ । १८४६ इसुसुक्तान्तात् कः ७ । ३ । ५१ । इस-उस्-उक्-तान्तात् परस्य ठस्य कः।साक्तुकम् । 'हास्तिकम् । धैनुकम्। १०५० तदधीते तद्वद ४ । २ । ५8 ।
१-'यूनस्तिः' इति ति-प्रत्ययान्तात् युवतिशब्दात समूहेऽर्थेऽणप्रत्यये 'अन्' इति सूत्रेण प्रकृतिभावे 'यौवनम्' इति सिद्धयति । शत्रन्तादुगितश्चेति डीप्प्रत्यये अनुदात्तादेर्युवतीति दीर्घान्तात् समूहेऽनि तु 'यौवतम्' । २-समूहेऽथें । ३-अत्रापि समूहे-एव । ४-बहन शब्दात् समूहेऽर्थे 'ख' प्रत्ययः स्याद् यज्ञे वाच्ये इत्यर्थः । खस्य ईन' 'नस्तद्धिते' इति टिलोपः। ग्रहीनः = अनेकदिनसाध्यः क्रतुविशेषः । ५-षष्ठ्यन्तात् अचित्तात् (चित्तरहितवाचकात् ) तथा हस्तिशब्दात्, धेनुशब्दाच समूहेऽर्थे ठक स्यादिति सूत्रार्थः। ६-'नलोपः प्रातिपदिकान्तस्य' इति नलोपः, हस्तिनीना समूह इति विग्रहेऽपि (भस्याऽढे) इति पुवद्भावे तदेव रूपम् । ७-द्वितीयान्ताद् एतस्मिन्नर्थेऽणादयः प्रत्ययाः स्युरित्यर्थः ।।
(वा०-ट भिन्न तद्धित परे रहते भसंज्ञक प्रातिपदिक को पुंवद्भाव होता है । ) १०४६ अपत्यार्थभिन्न अण परे रहते इन को प्रकृतिभाव होता है । १०४७-ग्राम जन-बन्धु शब्दों से समूह अर्थ में तल प्रत्यय होता है।
(वा० (१) गज और सहाय शब्द से समूह अर्थ में तल प्र यय कहना चाहिये । (२) अहन् शब्द से ख प्रत्यय होता है ऋतु अर्थ में)।
१०४८-चेतना रहितवाची, तथा हस्ति-शब्द और चेन-शब्द से समूह अर्थ में ठक प्रत्यय होता है।
१०४६-इस् उस्-उक् और तकारान्त से परे ठ को क होता है । १०५०-द्वितीयान्त से अधीते और 'वेद' अर्थ में अणादि प्रत्यय होते हैं ।