SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषः Re लुगुत्तरपदे । स्तोकान्मुक्तः । अन्तिकादागतः । श्रभ्याशादागतः । दूरादागतः । कृच्छ्रादागतः । ६३१ 'षष्ठी २ । २ । ३७ । सुबन्तेन प्राग्वत् । `राजपुरुषः । ६३२ पूर्वापराधरोत्तर मेकदेशिनैकाधिकरणे । २ । २ । १ । श्रवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्व ' कायस्य पूर्वकायः । अपरकायः । एकाधिकरणे किम् "पूर्वश्छात्राणाम् | ६३३ अ नपुंसकम् २ । २ । २ । समांशवाच्यर्धशब्दो नित्यं क्लीवे स प्राग्वत् । अधं पिप्पल्याः, 'अर्ध पिप्पली । ६३४ सप्तमी शौण्डेः २ । १ । ४० । १- षष्ठ्यन्त समर्थेन सुबन्तेन समस्यते - इत्यर्थः । २ - राजपुरुषः - 'राजन् + ङस् पुरुष - सु' इत्यलौकिक विग्रहे 'षष्ठी' इत्यनेन समासे प्रातिपदिकत्वेम सुपो लुकि प्रन्तर्वर्तिनों लुप्तां विभक्तिमाश्रित्य पदत्वान्नलोपे समुदायात् पुनः सौ रुत्वे विसर्गे 'राजपुरुषः ' इति रूपं सिध्यति । ३ - प्रवयववाचकाः शब्दाः इत्यर्थः । ४ - पूर्वकाय, इत्यादौ 'षष्ठी' इति समासप्राप्तावपि सूत्रान्तरविधानं पूर्वादिशब्दस्य पूर्वनिपातार्थम् । श्रन्यथा 'मठो' इति समासशास्त्रे प्रथमानिद्दिष्टत्वेन षष्ठ्यन्तस्य ( कायादिशब्दस्य ) पूर्वनिपातः स्यात् । ५ - छात्राणां बहुत्वेन नात्राधिकरणैकत्वमिति न समासः । ६- पिप्पलीशब्दस्य षष्ट्यन्तत्वात् 'एकविभक्तावषष्ठ्यन्तवचनम्' इति उपसर्जनत्वाभावेन गोस्त्रियोरुपसर्जनस्येति न ह्रस्वः । सुबन्त ९३१ - पठ्यन्त का प्रातिपदिक सुबन्त के साथ समास होता है विकल्प से ९३२ - श्रवयवी के साथ पूर्वादि शब्द समस्त होते हैं यदि वह अवयवी एकत्व संख्या विशिष्ट हो । ९३३ - नपुंसकलिंग में नित्य वर्तमान समांशवाची अर्ध शब्द श्रवयविवाचक समर्थ साथ समस्त होता है विकल्प से । के ६३४ - सप्तम्यन्त शब्द शौण्डादिक प्रकृतिक समर्थ सुबन्त के साथ समस्त होते हैं ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy