________________
Shri Mahavir Jain Aradhana Kendral
कल्पसूत्रं
॥१३६॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
अणुत्तराए गुत्तीए, अणुत्तराए तुट्टीए, अणुत्तरेणं सच्चसंजम तवसुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावेमाणस्स दुवालस संवच्छराई विइकंताई ।
।
अथ स भगवान् वर्षाकालस्य चतुर्मासीं विना शीतोष्णकालस्य मासाष्टकं यावद् ग्रामे एकदिनम्, नगरे पञ्चदिनं स्वामी तिष्ठति । वासीचंदणसमाणकप्पे - यथा पशुना चन्दनवृक्षः छिद्यमानः पर्शुमुखं सुरभीकरोति, तथा भगवानपि दुःखदायकेऽपि उपकारं करोति अथवा पूजके छेदके च उभयोरुपरि समानबुद्धिः । तृणमण्योः, सुवर्णपाषाणयोः, सुखदुःखयोः सादृश्यं धत्ते । इहलोक परलोके जीवितमरणयोरुपरि समभावः । कर्मशत्रुहनने सावधानः । अनेन प्रकारेण प्रवर्तमानस्य भगवतः सर्वोत्कृष्टैश्चतुर्भिर्ज्ञानैर्विराजमानस्य सर्वोत्कृष्टक्षायिकसम्यक्त्वेन सर्वोत्कृष्टयथाख्यातचारित्रेण विराजमानस्य द्वादशवर्षाणि पुनः षण्मासाः पञ्चदशभिर्दिनैः अधिकाः- एतावत्कालं गतः । अथ भगवतस्तपो वर्ण्यते - षण्मासी १ पारणं १, सङ्गमोपसर्गे पञ्चदिनऊना षण्मासी १ पारणं १, चतुर्मासी ९ पारणा ९, त्रिमासी २ पारणा २, अर्धतृतीयमासी २ पारणा २, द्विमासी ६ पारणा ६, अर्धद्वितीयमासी २ पारणा २, एकमासी १२ पारणा १२, अर्द्धमासी ७२ पारणा ७२, षष्टतपः २२९ पारणा २२९, १ भद्रप्रतिमादिने २, महाभद्रप्रतिमादिनानि ४, सर्वतोभद्रप्रतिमादिनानि १०, एतास्तिस्रः प्रतिमा एकदा अच्छिन्ना व्यूढाः, तासां
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
॥१३६॥