Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 562
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir केशेषु सत्सु जलार्द्रत्वेन अप्कायविराधना स्यात् । ततश्च षट्पद्यः स्युः। तासांनखैर्विनाशः स्यात्।चर्मणि नखैर्वणोत्पत्तिः स्यात्। तस्मात् कारणाद् गोलोमप्रमाणा अपि केशान रक्षणीयाः अथ च यदि सामर्थ्य सद्भावेऽपि क्षुरेण मुण्डनं कारयेत्, कर्तर्या वा कर्त्तनं कारयेत्तदा तीर्थङ्कराऽऽज्ञाया विराधना स्यात्। अपरेषामपि साधूनां लोचकारापणे मनो भज्यते, तेन मिथ्यात्वप्ररूपणा प्रसङ्गः स्यात् तथा संयमविराधना, आत्मविराधना वा स्यात्। षट्पद्यश्च नियन्ते । नापितो द्रव्यादिकं याचते । अथवा अप्रासुकपानीयव्यापत्त्या पश्चात्कर्म लगति । क्षुरप्रम् , हस्तं च अप्रासुकजलेन प्रक्षालयति तस्माद जिनशासनस्य हीलना भवति तेन मुख्यवृत्त्या लोच एव कारयितव्यः॥ अथ अपवादनयेन लुचने ज्वरादिरुक, बालस्यासहनत्वाद् रोदनम् , कश्चिद् मन्दश्रद्धावान् संयममपि त्यजति एतादृशस्य लोचो न कर्त्तव्यः। तदा किं कुर्याद ? इत्याह-'अजेणं' आर्येण साधुना क्षुरमुण्डितेन भाव्यम् । अयमपवादनयः। लुश्चितशिरोजेन भाव्यम् एष उत्सर्गमार्गः। यदा क्षुरप्रेण मुण्डनं कारयितुं न शक्नोति मस्तके स्फोटकादिसद्भावे, तदा कर्ता शिरोजानि कर्तरितव्यानि, पक्षिकायां २ संस्तारकशय्यादेवन्धनदरिका उत्कीलनीया पुनः पञ्चदशे दिने आलोचनां गृह्णाति, लोचमसहन् मासे २ क्षुरेण मुण्डापयेत्, पक्षे २ प्रच्छनवृत्त्या कर्तर्या केशकर्त्तनं कारयेत्, निशीथे उक्तमस्ति-'क्षुरमुण्डे लघुमासः प्रायश्चित्तम् , कर्त्तने गुरुमास: प्रायश्चित्तं ददाति' । पुनस्तरुणसाधोश्चतुर्भिर्मासैलञ्चनं कल्पते, स्थविरस्य, वृद्धस्य, जराजर्जेरितस्य चक्षुस्ते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577