Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 574
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मयंगतीराए ३, सीहो अंजणपत्रए ४ ॥१॥ वाणारसीए बडुओ५, राया इच्छेच सो हुओ ६। एए सिंघायगो| जोओ, सो इत्येव समागओ ॥२॥ पुनश्च अच्चकारी भहादीनां दृष्टान्तं श्रुत्वा कषायशल्यादीनि न रक्षणीयानि इति पर्युषणासमाचारी उक्ता ॥अथ तासां फलमाह| अर्थः-इत्यऽमुना प्रकारेण स तत् सांवत्सरे भवं सांवत्सरिकं वर्षाकालसंवन्धि स्थविराणां कल्पं स्थविरकल्पिनां साधूनामयमाचारः । यद्यपि जिनकल्पिनामपि किंचिदाचारनिरूपणमस्ति तथाऽपि स्थविरकल्पिनां सा धूनामाचार-बहुलत्वात् स्थविरकल्पं-यथासूत्रं सूत्रोक्तरीत्या, 'अहाकप्पं यथाकल्पं, यथामार्ग यथामोक्षमार्गः| जासाध्यते, यथातत्त्वं परमार्थज्ञानेन सम्यकतीर्थकराज्ञया कायेन, वाचा, मनसा; सम्यक्शब्देन, मनसा, वाचा स्पर्शयित्वा, पालयित्वा, शोधयित्वा, अतीचारान् क्षामयित्वा, तीरित्वा-यावजीवं तीरं प्रापयित्वा, पुनः कीर्तनयित्वा-अन्येषामुपदेशेन कीर्तनं कृत्वा, यथोक्तविधिना करणम् आराधनां तां कृत्वा जिनाज्ञया अनुपाल्य एके केचित् तेनैव भवग्रहणेन सिद्ध्यन्ति, पुनर्बुद्ध्यते-केवलं प्राप्नुवन्ति, मुक्ता भवंति कर्मबंधनेभ्यः, परिनिर्वापयंति-परिसामस्त्येन कर्मतापाच्छीतलतां प्राप्नुवन्ति; किंबहुना सर्वदुःखानां सर्वेन्द्रिय-मनःसंबंधिनां दुःखा-| नामन्तं कुर्वन्ति। कदाचित्तस्मिन् एव भवे मुक्तिर्न स्यात् तदा द्वितीये भवे पूर्वोक्तलक्षणा भवन्ति । केचित्तृतीयभवे सिद्ध्यंति, बुद्ध्यंति अथवा सप्ताअष्टौ मनुष्यभवान् नोल्लचन्ते, इत्यष्टाविंशतितमी समाचारी ॥२८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 572 573 574 575 576 577