Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिलेहित्तए, न तहा हेमंत-गिम्हासु जहा णं वासासु, से किमाहु ? भंते ! वासासु णं उस्सण्णं पाणा य, तणा य, बीया य, पणगा य, हरियाणि य भवंति ॥ ५५॥
अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनाम् उच्चार-प्रश्रवणभूमिकात्रितयम् , स्थण्डिलभूमित्रयं प्रति लेखनीयं कल्पते । यस्य दूरभूमिकात्रितयप्रतिलेखने शक्तिनस्यात्, तस्य भूमिकात्रितयम्-दूरम् , मध्यम् , आसन्नं चोपाश्रयमध्ये एव प्रतिलेखनीयम् । तत उपाश्रयाद्वहिभूमिकात्रितयम्-दूरम्, मध्यम् , आसन्न प्रतिलेखनीयं । यदि सोढुं न शक्नोति तथाऽपि भूमिकात्रितयं प्रतिलेखनीयम् एवं द्वादश स्थण्डिलानि उपाश्रयमध्ये । द्वादश स्थण्डिलानि उपाश्रयाहिरपि । सर्वमीलने चतुर्विशतिर्भवन्ति वर्षाकाले प्रतिलेख्यानि ? तथा शीतकाले, उष्णकाले च न प्रतिलेख्यानि । वर्षाकाले हि पृथिव्यामिन्द्रगोप-कृमि-कीटिकाः, नूतनतृणानि, बीजानि, पनकादीनि जीवानां कुलानि पृथिव्यां आकुलानि स्युः तस्माद्भूमिकात्रयं प्रतिलेख्यम् ॥ एषा विंशतितमी समाचारी॥२०॥ अथैकविंशतितमी मात्रकत्रितयरूपा समाचारी कथ्यतेवासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा, तओ मत्तगाइं गिण्हित्तए, तं जहा-उच्चारमत्तए, पासवणमत्तए, खेलमत्तए ॥ ५६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577