Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
क.स. ४७
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुर्वतां साधूनां महती कर्मनिर्जरा भवति । इति श्रुत्वा सोमिलः प्रतिलेखनायां दृढमनस्को बभूव ॥ ४ ॥ | उच्चार- प्रसवण- खेल - जल्ल-सिंघाणपरिष्ठापनिकासमितौ लघुशिष्यदृष्टान्तो यथा कश्चित् साधुषु लघुशि यो मुनिचन्द्रनामा सन्ध्यायां गुरुभिरुक्तो भो मुनिचन्द्र ! उत्थाय स्थण्डिलानि कुरु । इति श्रुत्वा लघुशिष्य आह- अद्य सन्ध्यायां स्थण्डिलानि न कृतानि, तर्हि किं रजन्यामागत्य उष्ट्राः स्थास्यन्ति । गुरवस्तूष्णीं तस्थुः । रजन्यां प्रश्रवणादिपरिष्ठापनाय गतो मुनिचन्द्रः स्थण्डिलभूमौ । शासनदेव्या उत्पादितैरुष्ट्रैर्लत्ताभिहतो भीतो गुरुपार्श्वे उपागत्योचे । गुरुभिरुक्तम्-त्वया स्थण्डिलकरणावसरे सोल्लुण्ठवचनं प्रत्यपादि तेन शासनदेव्या त्वं शिक्षितोऽसि । इति श्रुत्वा तत्र शासनदेव्याः समक्षं लघुशिष्यो मुनिचन्द्रो मिथ्यादुष्कृतं कृत्वा परिष्ठापनिकासमिती स्थिरो बभूव ॥ ५ ॥ अथ गुप्तीनामुदाहरणान्याह - प्रथमं मनोगुप्तौ-कुङ्कणः साधुरीर्यापथिकीं प्रतिक्रम्य, कायोत्सर्गे कर्षणं चिन्तयामास । गुरुभिः प्रतिबोधितः सावद्यव्यापारचिन्तनस्य मिथ्यादुष्कृतं ददौ ६ ॥ वाग्गुप्तौ - गुणदत्तस्साधुः स्वसांसारिकान् मातृ-भ्रातॄन वन्दनां कारयितुं व्रजन् मार्गे तस्करैरुक्तःकस्यापि त्वयाऽस्माकं शुद्धिर्न देया; इत्युक्त्वा चौरैर्मुक्तः । दैवयोगादग्रे सांसारिका एव तस्मै मुनये मिलिताः । मुनिना चौराणां शुद्धिस्तेषां पुरतो नोक्ता । चौरैरुपलक्षितः, प्रशंसितो मुनिः । मुनेर्दाक्षिण्याद् मुनेरेव सांसारिकान् ज्ञात्वा चौरैरपि स सार्थो न लुण्टितः ७ ॥ कायगुप्तौ अरहन्नकदृष्टान्तः । यथा - अरहन्नकः साधुर्विहारं
For Private and Personal Use Only

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577