Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 567
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥२८॥ श्रीमहावीरस्य जीवितस्वामिनःप्रतिमां कारयित्वा, पूजां कुरु। येन जन्मान्तरे बोधिबीजप्राप्तिस्तव स्यात् । तेनाऽपि कल्पद्रुम महावीरप्रतिमांगोशीर्षचन्दनमयीं कारयित्वा,पूजयित्वा प्रान्ते सांयात्रिकान दत्त्वा वीतभयपत्तने प्रेषिता प्रतिमा- कलिका पेटिका, चतुष्पथे देवाधिदेवस्य नाम्ना समिथ्यात्विभिः पेट्युद्धाटनाय आग्रहः कृतः, परं पेटी नोद्घाटिता । तदा |वृतियुक्तं. व्याख्या. प्रभावत्या राज्या श्रीवीरस्य श्राविकया देवाधिदेवस्य महावीरस्य नामोच्चारणेनोद्घाटिता, तदा लात्वा प्रभावत्या खदेवगृहाश्रये सा प्रतिमा पूजिता। एकदा प्रभावतीदेव्या स्वायुषः प्रान्तं ज्ञात्वा, उदायिनः नृपस्याऽऽज्ञां लात्वा, खपत्युः पावे इत्युक्तम्-यदाऽहं देवयोनौ उत्पत्स्यामि तदा तव दुष्करवेलायां साहाय्यं करिष्यामि, इति दीक्षा जगृहे । ततः पश्चात्तांप्रतिमा उदायनराजा पुपूज।तत्र कुब्जा दासी पूजोपकरणानि जलादीनि आनयति । एकदा तत्र गन्धारश्रावकेण यात्रार्थमागतेन कुञ्जया कृतवैयावृत्त्येन तुष्टेन स्वयं दीक्षायाम् उद्यतेन रूपपरावर्तिनी गुटिका, सौभाग्यकारिणी गुटिका च; एवं गुटिकाद्वयं ददे । तेन श्राद्धेन दीक्षा जगृहे । एकदा सा कुब्जा रूपपरावर्तिनी गुटिकां भुक्त्वा सुरूपा बभूव । उदायननृपोऽपि तादृशीं दिव्यरूपां तां दृष्ट्वा नोपलक्षयति स्म । ज्ञाता सती सा राज्ञे खरूपम् उवाच । तदा राज्ञा सुवर्णगुलिकेति नाम तस्याश्चक्रे । द्वितीयया गुटिकया चण्ड-0॥२८॥ प्रद्योतनाऽग्रे सौभाग्यं बभूव । चण्डप्रद्योतनोऽपि तादृशीमेवापरां चन्दनमयी प्रतिमा कारयित्वा तत्स्थाने तां, स्थापयित्वा, तया प्रतिमया सह सुवर्णगुलिकाम् अनलगिरिगन्धहस्तिस्कन्धे समारोप्य उज्जयिन्याम् आजगाम । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577