Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 568
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रातः पूजार्थं समागतेन उदायननृपेण सर्व प्रतिमायाः सुवर्णगुलिकायाश्च हरणादिकं चण्डप्रद्योतनस्य चरित्रं| ज्ञातम् । ततश्चोदायननृपो महासेनादीन दश मुकुटबद्धभूपान् खसैन्येन संमील्य उज्जयिन्यां प्रति प्रतस्थे । मागें । | आगच्छतः उदायननृपसैन्यस्य प्रभावतीदेवेन त्रिषु स्थानेषु जलस्य साहाय्यं कृतम् । प्रथम लोद्रपुरपत्तने ॥१॥ ततः पुष्करिण्याम्, अद्यापि तत्र 'स्त्रीवापी इति पुष्करणनगरे प्रसिद्धाऽस्ति ॥२॥ ततः पुष्करकुण्डेऽजश्चमेरुपार्थे ॥३॥ एतानि त्रीण्यपि देवनिर्मितजलस्थानानि । एवमुदायननृपोऽपि अनुक्रमेण मालवदेशमध्ये आगत्य चण्डप्रद्योतनाय दूतं प्रेषयति स्म। सुवर्णगुलिका तुभ्यं दत्ता, परं जीवितखामिनः श्रीमहावीरस्य प्रतिमा दूतस्याऽस्य सार्थे मोक्तव्या । इति लेखं वाचयित्वा दूतो निर्भसितः, चण्डप्रद्योतनो युद्धसजो बभूव । तत्र संग्रामे च प्रभावतीदेवीसाहाय्याचण्डप्रद्योतनं युद्धे निर्जित्य, मदासीपति इत्यक्षरयुक्तं ललाटपट्टे खर्णपद बन्धयित्वा, पादयोः । वर्णनिगडं परिधाप्य, उज्जयिन्यां स्वाऽऽज्ञया भ्रामयामास, ततो यावत्ता प्रतिमामुदायननृप उत्थापयति तावत् | सा प्रतिमा स्थानान्नोत्तिष्ठते । वीतभयपत्तने उपद्रवं भविता तेनेयं प्रतिमा नाऽऽयास्यतीति देववाणीं श्रुत्वा, प्रतिमां तत्रैव मुक्त्वा चण्डप्रद्योतनं बध्वा, सार्थे लावा खपुराय चचाल । मार्गे वर्षाकालवशाद् मालवदेशस्य | पिच्छलपङ्कबहुलत्वाचलितुमशक्त उदायनो राजा स्वसैन्येन स्थितः । तत्र दशभिर्मुकुटबद्धभूपैः पृथक् २ |स्थितम् , तेनाऽद्यापि मालवदेशे दशपुरनगरमस्ति । एवं तत्र सुखेन वर्षाकाले स्थितस्योदायनस्य भूपस्य पर्युष For Private and Personal Use Only

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577