Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥२७९॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
जोरक्षणाय षद्भिर्मासैलुचनं कल्पते सांवत्सरिके वा । तथा वर्षाकाले स्थविरकल्पिनोऽवश्यं लुञ्चनम् , जिनकल्पिना, स्थविरकल्पिनश्च निश्चयेन ध्रुवलुञ्चनं कल्पते ॥ एषा द्वाविंशतितमी समाचारी ॥२२॥ अथ राटीवचननिषेध-मानादिपिण्डनिषेधरूपा त्रयोविंशतितमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा परं पज्जोसवणाओ अहिगरणं वइत्तए, जे णं निग्गंथो वा, निग्गंथी वा परं पज्जोसवणाओ अहिंगरणं वयइ, से णं । "अकप्पेणं अज्जो ! वयसीति' वत्तत्वं सिया, जेणं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयइ, से णं निहियत्वे सिया ॥ ५८ ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च पर्युषणप्रतिक्रमणाऽनन्तरं अधिकरणं कलिः, राटीसूचकं वचनं वक्तुं न कल्पते ।अथ च यः कश्चित्साधुः पर्युषणापतिक्रमणानन्तरंराटीसूचकं वाक्यं जल्पतितं प्रत्यन्यः साधुरेवं वक्ति-हे आर्य! तव न कल्पते। भवान् कलहकारिवाक्यं वक्ति, ईदृग्वचनं न वक्तव्यम् । अत्राऽयं भावः-पर्युषणापप्रतिक्रमणात् पूर्वमधिकरणवचनं कदाचिद् उक्तं भवति तत्तु पर्युषणापर्वप्रतिक्रमणे क्षामितं भवति, पुनर्यःसाधुः कदाचित् पर्युषणापर्वणः परमऽग्रे राटीकरणम् अधिकरणं वचनं वदेत् स साधुः 'निज्जूहियचे सिया' निर्वा
|॥२७९॥
For Private and Personal Use Only

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577