Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 559
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥२७७॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 1 कुर्वन् मार्गे लघुवाहलकं वहन्तं सर्वलोकैः कूर्दनेनोल्लङ्घयमानं दृष्ट्वा मनसि जीवदयया चिन्तयन्, अप्कायविराधनानिवारणाय तं वाहलकं कूर्दन् शासनदेच्या टङ्वान्तराले लकुटीं प्रक्षिप्य पातितः । भग्रटङ्ग्ग्वश्च शासनदेव्या जिनाज्ञां संश्राव्य टवायाः समाधिं कृत्वा प्रबोधितः । सोऽपि मिथ्यादुष्कृतं दत्त्वा कायगुप्तौ स्थिरो जातः ८ ॥ इत्यनेन साधु-साध्वीनां वर्षाकाले पाट-पीठफलक - काष्ठाऽऽसनादिपूर्वोक्तेषु स्थितिः कल्पते, परं चतुर्मासे भूमौ शयनम् उपवेशनं च न कल्पते । तेषां च प्रतिलेखनम्, प्रमार्जनम्, शोधनम्, भूमेः सकाशादुपकरणम् उच्चैः रक्षणीयम्, तदप्यप्रतिलेखनीयम्, अव्याप्रियमाणं न रक्षणीयम् । साधूनां चतुर्दश उपकरणानि । साध्वीनां पञ्चविंशतिरूपकरणानि । एकस्मिन् दिने वारद्वयं प्रतिलेख्यानि, त्रिशुद्ध्या यतना विधेया । मुखवस्त्रिकया मुखमाच्छाद्य जल्पनीयम् । दण्डप्रोञ्छनक - रजोहरणादिना भूमौ प्रमार्ण्य चलितव्यम् । भक्त- पानीयमानीय उद्योते संशोध्य आहर्त्तव्यम् । प्रतिदिनमहोरात्रे सप्तवारं चैत्यवन्दना विधेया । एकस्मिन् अहोरात्रे चतुर्वारं स्वाध्यायी कर्त्तव्या । विकथा न कर्त्तव्या । एवं कुर्वतां साधूनां सुखेन संयमनिर्वाहो भवति ॥ इत्येकोनविंशतितमी समाचारी ॥ १९ ॥ अथ चतुर्विंशतिस्थण्डिलस्थानप्रतिलेखनरूपा विंशतितमी समाचारी कथ्यते वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा, तओ उच्चारपासवणभूमीओ For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ९ ॥२७७॥

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577