________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्रं
साप्त कमला एवं तद्वतम् । पूर्ववत अन्यामिन समय अग्निभा
॥१३८॥
सर्वैः श्रुता परं कोऽपि न प्रतिवुद्धः । प्रथमदेशना निष्फला जाता । ततः स्वामी रात्रौ एच सडेन सहितः। कल्पद्रुम वर्णकमलैः सञ्चरन्-तत्र सप्त कमलानि प्रदक्षिणया भ्रमन्ति, द्वे द्वे कमले चरणयोरधः समागच्छतः, देवानां कलिका माहात्म्यात् अयं खामिनो अतिशयः। एवं तद् रात्रौ एव द्वादशयोजनभूमि उल्लङ्घय खामी प्रातः मध्यमपा-1
वृचियुक्त. पायाः परिसरे आगतस्तत्र देवैः समवसरणं रचितम् । पूर्व दिग्द्वारे प्रविश्य अशोकवृक्षं त्रिः प्रदक्षणीकृत्य 'नमो
व्याख्या. तित्थस्स' इत्युक्त्वा सिंहासनोपरि पूर्वाभिमुखो भगवान् तिष्ठति । अन्यासु तिसृषु दिक्षु तीर्थकरस्य प्रतिबिम्ब व्यन्तरदेवाः स्थापयन्ति । चतुर्मुखो भगवान् चतुःप्रकारधर्म दर्शयति । तस्मिन् समये तत्र नगर्या सोमिलनाना विप्रेण यज्ञकरणाय एकादश ब्राह्मणा उपाध्याया आहूताः। ते च अमी-इन्द्रभूतिः१, अग्निभूतिः२, वायुभूतिः |३, व्यक्तः ४, सुधर्मा ५, मण्डितः ६, मौर्यपुत्रः७, अकम्पितः ८, अचलभ्राता ९, मेतार्यः १०,प्रभासः ११ । एतेषां उपाध्यायानां वेदपदेषु पृथक् पृथक् सन्देहाः सन्ति । ते सन्देहाः उच्यन्ते-जीवोऽस्ति न वा १, कर्म वर्तते न वा २, जीवशरीरयोः ऐक्यमेव पृथगभावो वा ३, पञ्चभूतानि सन्ति न वा ४, यः अस्मिन् भवे यादृशो भवति तादृशोऽपि परभवे मृत्वा भवति न वा ५, जीवस्य बन्धमोक्षी वर्तेते न वा ६, देवाः सन्ति न वा ७, नारकाः।
॥१३॥ सन्ति न वा ८, पुण्यं वर्तते नवा, पापं वर्तते न वा ९, परलोको नाऽस्त्येव १०, मोक्षोऽस्ति न वा ११, एते सन्देहाः प्रत्येकं एकादशानामपि सन्ति। अथ तेषां परिवारः प्रथमतः पश्चानां पण्डितानां प्रत्येकं पञ्चशतस्य परिकरः, ततः
For Private and Personal Use Only