Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 554
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किका, पट्टिकादिकम् अवश्यं गृहीतव्यम् । यदि न गृह्णाति तदा जीवानां यत्ना न भवति । अथ यच्छय्या-ss-12 सनादिकं साधवो गृह्णन्ति तत्कीदृशं युज्यते ? तदाऽऽह-या शय्या अनुच्चा-उच्चा न भवति, अनुच्चा चाऽसौ अकुचा च अनुचाकुचा, या अत्युचा न भवति । भूमेः सकाशाद् एकहस्तोचप्रमाणा भवति। कीटिका-कुन्थ्वादीनां विराधना यस्यां न स्यात्, सर्प-वृश्चिक-कर्णखजूरादेर्भयं न स्यात् । अथ पुनर्या शय्या अकुचा भवति निश्चला भवति, न विद्यते कुचश्चलनं यस्याः सा अकुचा, लिच-पिच-शब्दमकुर्वाणा इत्यर्थः। यदि लम्पनिकादीनां कम्बा दृढा न भवेयुस्तदा अन्तर्गतानां जीवानां विनाशः स्याद् इत्यनेन एकहस्तोचा, दृढबन्धा, वंशकम्बानां शय्या तस्य साधोः भवति॥१॥ पुनरनर्थबन्धस्य अर्थेन प्रयोजनेन विना पक्षमध्ये वारद्वयम्, त्रयं वा लम्पनिकायाः कम्बानां बन्धनं करोति स अनर्थवन्धः, तस्य लम्पनिका पक्षमध्ये एकवारमुत्कीलनीया, अधिक नोत्कीलनीया इत्यर्थः । उत्सर्गतः एका, द्वे वा, तिस्रो वा, चतस्रो वा, अन्तराले लकुटीर्दत्त्वा तारखेव दृढं बन्धनीया । चतुभ्यो बन्धनेभ्योऽधिकं न बन्धनीया । चेदधिकबन्धना भवेत्तर्हि उत्कीलनाऽवसरे स्वाध्यायव्याघातः स्यात्, यदा च शयनाय एकफलिका पट्टिका मिलति तदा विफलिका पट्टिका न ग्राह्या । यथा लम्पनिकायाः पट्टिकाया वा चतुभ्यो न्यूना बन्धा भवेयुस्तथा कर्त्तव्यं यस्य साधोलम्पनिकायाम् अधिका बन्धाः स्युः स साधुरनर्थकबन्ध उच्यते॥२॥ यस्य साधोः पुनरमितानि बहूनि आसनानि भवन्ति स अमितासनः,तस्य अथवा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577