Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 550
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कथमपृष्ट्वा विकृति न भुते? आचार्याः प्रत्युपायं जानन्ति, लाभम् , त्रुटि वा जानन्ति । ग्लानस्य विकृतौ दत्तायां ज्वरादिकं स्यात्, पुष्टये भुक्ता अपुष्टिकारिणी वा स्यात्, गुरवो दीर्घदर्शिनः स्युस्तस्मात् पृष्ट्वैव भोक्तव्यम् ॥ वर्षाकाले स्थितः साधुः, साध्वी वा यदि वात-पित्त-कफ-सन्निपात-रक्तकोपादिरोगादीनां व्याधीनां चिकित्साम्-व्याधिदूरीकरणसामग्री भेषजादिकाम् आवर्तयितुम्-कारयितुमिच्छेत् तदा पूर्वोक्तरीत्या आचार्यादीनामाज्ञां गृहीत्वा कारयितव्या। कश्चित् पृच्छति-तत्र को हेतुः? तदाह-आचार्याः प्रत्युपायं जानन्ति, देशकाल-वयो-योग्या-ऽयोग्यक्षेत्रादिकानां वेत्तारो भवन्ति ॥ वर्षाकाले स्थितः साधुः, साध्वी वा यदि वा | अन्यतरमुदारं प्रधानं तपः कर्तुमिच्छेत् तदापि आचार्यादीन् अपृष्ट्वा न कर्तव्यम्, तत्रापि हेतुमाह-आचार्याः प्रत्युपायं जानन्ति, तपस्करणे कश्चिद्वैयावृत्यकराऽभावम् , भैषजाद्यभावं वा, शरीरस्या सामर्थ्य वा सर्वमाचार्या विदन्ति तस्माद् आचार्या अत्राऽऽपृष्टव्याः॥ वर्षाकाले स्थितः साधुः, साध्वी वा 'अपच्छिमां अन्त्यां मरण-| सम्बन्धिनी संलेखनां यया कृत्वा कर्माणि ध्वस्यन्ते, शरीरं वा ध्वस्यते; सा ध्वंसना तया कर्मध्वंसनया तपस्क्रियया शरीरं ध्वंसयितुं । भक्तम्, पानं च प्रत्याख्यातुम्-परिहर्तुम् ; पुनः पादपोपगमनमनशनं कृत्वा कालं मरणम् अनिच्छन्नेवं विहर्तुम् । पुनर्गृहस्थगृहे कस्मैचित् कार्याय, आहाराद्यर्थ वा निष्क्रमितुम्, प्रविशितुं च पुनरशनादिचतुर्विधाहारमाहर्तुम्-भोक्तुम् । पुनरुच्चारम्-बृहन्नीतिम्, प्रश्रवणम्-लघुनीतिं वा परिष्टापयितुम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577