Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 506
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवशिष्यते, न तु सप्ततिर्दिनानाम् । तथा च भावत्को दिनसप्ततिरक्षणमनोरथो मनोरथ एव । किंच, यदा लौकिकटिप्पणानुसारेण व्यतीतेषु कतिपयेषु वर्षेषु कार्तिकमासः क्षयं याति तदा तु भवतां दिनसप्ततिरक्षणप्रतिज्ञा सर्वथा प्रलयमेव प्राप्नोति न च तदानीं तद्रक्षणसामर्थ्य भवतां केषांचिदपि स्फूर्तिमियति । अतो दिनानां पञ्चाशतैव पर्युषणासमाराधनं समागते समधिके मासे संसिद्ध्यति सत्पत्सु, आगमानुमतत्वात्, युक्तियुक्तत्वाच्च । तथाविधाने पर्युषणायाः पश्चाद् यथायोग्यं दिनानां शते, सप्ततौ च अवशिष्टे न कापि दूषणकणोऽपि समुज्जृम्भते किंच, श्रीबृहत्कल्पभाष्यवृत्तौ श्री तपगच्छीयक्षेमकीर्तिसूरिरपि एवं प्रतिपादयति, तथा च – “सविंशतिरात्राद् मासात् परतो नाऽतिक्रमयितुं कल्पते, यद्येतावत्कालेऽपि गते वर्षायोग्यं क्षेत्रं न लभ्यते, ततो वृक्षमूलेऽपि पर्युषितव्यम् । ये किल आपाढपूर्णिमायाः सविंशतिरात्रे मासे गते पर्युपयन्ति, तेषां सप्ततिदिवसानि जघन्यो वर्षावासाऽवग्रहो भवति, भाद्रपदशुद्धपंचम्या अनन्तरं कार्तिकपूर्णिमायां सप्ततिदिनसद्भावात्" एवं प्राधान्येन पंचाशद्दिनस्यैव मर्यादा सर्वत्र शास्त्रे समनुमता, ततश्च न सा विपर्ययितुं शक्या, पाश्चात्या सप्ततिदिवामानरूपाऽवधिस्तु अधिकमासाऽभावे सामान्यतः समुक्ता, न सा आगतेऽधिके मासे रक्षितुं शक्यते, नाऽपि च तद्रक्षणनियमः शास्त्रे संस्फुरति, नातस्तद्रक्षणे एव आदरपरैर्भवितव्यम् नैव च तदर्थम् अन्यपाठाक्षराणि प्रापणीयानि बुद्धिमद्भिः कैरपि । किंच ये केचिद् अत्रैवं विवन्ति यत् द्वितीयश्रावणे, प्रथमभाद्रपदे वा पर्युषणाविधानं कुत्र प्रोक्तम् ? तेषां चित्तसमाधानार्थ तैरेतत् अवहितचित्तत्वेन मननीयम् । तथा च सर्वत्र सूत्र - निर्युक्ति-भाष्य चूर्णि वृत्तिप्रभृतिषु शास्त्रेषु यत्र यत्र पर्युषणाविधेः प्रस्ताव:, तत्र तत्र सर्वत्र पंचाशता दिनैरेव तद्विधानम् । पर्युषणा च दिनप्रतिबद्धा सर्वत्र सूत्रिता, न च काऽपि मासप्रतिबद्धा निबद्धा । अतो यत्रैव मासे संप्रति सा दिनपूर्तिः संजायेत तत्रैव मासे तद्विधानं विधेयम्, तथैव करणं च सर्वशास्त्राज्ञाऽलंकरणमिति । तथा पुनरत्र For Private and Personal Use Only

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577