________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवशिष्यते, न तु सप्ततिर्दिनानाम् । तथा च भावत्को दिनसप्ततिरक्षणमनोरथो मनोरथ एव । किंच, यदा लौकिकटिप्पणानुसारेण व्यतीतेषु कतिपयेषु वर्षेषु कार्तिकमासः क्षयं याति तदा तु भवतां दिनसप्ततिरक्षणप्रतिज्ञा सर्वथा प्रलयमेव प्राप्नोति न च तदानीं तद्रक्षणसामर्थ्य भवतां केषांचिदपि स्फूर्तिमियति । अतो दिनानां पञ्चाशतैव पर्युषणासमाराधनं समागते समधिके मासे संसिद्ध्यति सत्पत्सु, आगमानुमतत्वात्, युक्तियुक्तत्वाच्च । तथाविधाने पर्युषणायाः पश्चाद् यथायोग्यं दिनानां शते, सप्ततौ च अवशिष्टे न कापि दूषणकणोऽपि समुज्जृम्भते किंच, श्रीबृहत्कल्पभाष्यवृत्तौ श्री तपगच्छीयक्षेमकीर्तिसूरिरपि एवं प्रतिपादयति, तथा च – “सविंशतिरात्राद् मासात् परतो नाऽतिक्रमयितुं कल्पते, यद्येतावत्कालेऽपि गते वर्षायोग्यं क्षेत्रं न लभ्यते, ततो वृक्षमूलेऽपि पर्युषितव्यम् । ये किल आपाढपूर्णिमायाः सविंशतिरात्रे मासे गते पर्युपयन्ति, तेषां सप्ततिदिवसानि जघन्यो वर्षावासाऽवग्रहो भवति, भाद्रपदशुद्धपंचम्या अनन्तरं कार्तिकपूर्णिमायां सप्ततिदिनसद्भावात्" एवं प्राधान्येन पंचाशद्दिनस्यैव मर्यादा सर्वत्र शास्त्रे समनुमता, ततश्च न सा विपर्ययितुं शक्या, पाश्चात्या सप्ततिदिवामानरूपाऽवधिस्तु अधिकमासाऽभावे सामान्यतः समुक्ता, न सा आगतेऽधिके मासे रक्षितुं शक्यते, नाऽपि च तद्रक्षणनियमः शास्त्रे संस्फुरति, नातस्तद्रक्षणे एव आदरपरैर्भवितव्यम् नैव च तदर्थम् अन्यपाठाक्षराणि प्रापणीयानि बुद्धिमद्भिः कैरपि । किंच ये केचिद् अत्रैवं विवन्ति यत् द्वितीयश्रावणे, प्रथमभाद्रपदे वा पर्युषणाविधानं कुत्र प्रोक्तम् ? तेषां चित्तसमाधानार्थ तैरेतत् अवहितचित्तत्वेन मननीयम् । तथा च सर्वत्र सूत्र - निर्युक्ति-भाष्य चूर्णि वृत्तिप्रभृतिषु शास्त्रेषु यत्र यत्र पर्युषणाविधेः प्रस्ताव:, तत्र तत्र सर्वत्र पंचाशता दिनैरेव तद्विधानम् । पर्युषणा च दिनप्रतिबद्धा सर्वत्र सूत्रिता, न च काऽपि मासप्रतिबद्धा निबद्धा । अतो यत्रैव मासे संप्रति सा दिनपूर्तिः संजायेत तत्रैव मासे तद्विधानं विधेयम्, तथैव करणं च सर्वशास्त्राज्ञाऽलंकरणमिति । तथा पुनरत्र
For Private and Personal Use Only