SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्र ॥२५०॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir अश्वयुक्पर्यवसानाः सप्त एव मासाः संवर्धन्ते, यदा च तट्टिप्पणानुसारेण श्रावणे, भाद्रपदे वा वृद्धे तत्र पञ्चाशदुत्तरशतं दिनानि वर्षाकालस्य (१५०) भवन्ति, तत्राऽपि च यदा पश्चाशता दिनैः पर्युषणाव्यवस्था तदा पर्युषणायाः पश्चाद् दिवसशतं तिष्ठत्येव, एतच, प्रत्यक्षेण, गणितशास्त्रेण, युक्त्या, विधिशास्त्रेण च संसिद्धमेव, नाऽत्र कश्चिद् विवदितुमर्हति युक्तियुक्तपक्षीयः, एतन्मते च न काऽपि वाधाऽपि बाधते । तथा च सर्वेष्वपि जैनविधिशास्त्रेषु पञ्चाशतो दिनानां संपूत्तौं नोलङ्घनीयमेकमपि दिनमिति सुप्रकटाक्षरैः प्रदर्शितम् । “अंतरा वि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए' त्ति कल्पवचनात् पञ्चाशतो दिनानां न युक्तमुखङ्घनम्, तथाऽकरणे च शास्त्रबाधा । ततश्च वर्तमानेऽपि समये पञ्चाशदिनप्रमाणरूप एव नियमो रक्षणीयः, तन्नियमानुसारेण च द्वितीयश्रावणे वा, प्रथमभाद्रपदे वा पर्युषणासमाराधनं शास्त्रसम्मतं, न पुनरशीत्या | दिनैः सिद्धान्तविरुद्धत्वात् । अत्र च सद्भूतायामपि मासवृद्धौ न सप्ततिदिननियमावकाशः। यश्च पाठः शास्त्रे चतुर्मासप्रमाणवर्षावसरमवलम्ब्य विंशत्युत्तरशतदिवसाऽपेक्षया सप्ततिदिनविषये प्रोक्तः, तं पाठं मुखरं कृत्वा समागते समधिके मासे, पश्चमासप्रमाणवर्षासमये पञ्चाशदुत्तरदिवसशतमानेऽपि कथं प्रवृत्तिर्विधेया विधिकाङ्क्षिभिः । तेनैव च पाठेन पञ्चाशद्दिनमर्यादां संमर्थ पाश्चात्यां सप्ततेर्दिनानामवधिं संरक्षितुं श्रावणवृद्धौ भाद्रपदे, भाद्रपदवृद्धौ द्वितीये भाद्रपदे वा दिनानामशीत्या पर्युषणाप्रतिष्ठापनं सिद्धान्तविरुद्धत्वात् न प्रतिष्ठापात्रम् । यतः यो हि पाठः यामपेक्षामवलम्ब्य शास्त्रे दर्शितः स पाठः, तामेवाऽपेक्षामालम्ब्य यथायोग्यं योजनीयोऽनुयोगयोजनचणैः । न हि यः पाठश्चतुर्मासप्रमाणवर्षाकालमुपलक्ष्य लक्षितः प्राचीनैः, स एव पाठो पञ्चमासमानवर्षाकाले अपि योजयितुमुचितः । तथा करणे मर्यादाभङ्ग - अतिप्रसङ्गादयश्चानेके दोषकोशाः संश्लिष्यन्ति तथाविधातारम् । एतच्च पूर्वमपि प्रोक्तम्, नाऽतो वारं वारं शिक्षयितुमर्हां यूयम् । यदि च भवन्तो पर्युषणानंतरं दिनानां सप्ततिमेव रक्षितुमभिलषन्ति परं कदाचिद् आश्विनमासवृद्धिस्तदा पश्चाद् भागे दिवसशतमेव For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं . व्याख्या. ९ ॥२५०॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy