________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणाकल्पचूर्णि-स्थानाजवृत्तिप्रभृतिगतपाठापलापप्रसङ्गः स्यात्, किमत्र बहूक्तेन ? । निशीथचूा दिपूर्वदर्शितप्रन्थसाक्ष्यानुसारेण समागते समधिके मासके दिवसानां शतं तिष्ठत्येव । ननु-अधिकमासाऽऽगते प्राचीनशास्त्रे तु पर्युषणाविधानं विंशत्या एव दिनैः प्रोक्तं तदा संप्रति कथं न भवद्भिरनुष्ठियते ! उच्यते यदा जैनटिप्पणकानुसारेण अभिवर्द्धितसंवत्सरो भवेत् तदा पूर्वधरादीनां समये विंशत्या पर्युषणाविधानप्रवृत्तिः अविच्छिन्ना आसीत् परं तट्टिप्पणकविच्छेदे प्राप्ते सति तत्पश्चात् विंशत्या कल्पोऽपि विच्छेदपथं प्रापितः। तथा च तीर्थोदारप्रकीर्णके"वीसदिणेहिं कप्पो, पञ्चग हाणीय कप्पट्ठवणा य । नवसय तेणउएहिं बुच्छिन्ना संघआणाए ॥श" जैनसिद्धान्तटिप्पणकाऽभावे पञ्च-पञ्चदिनवृद्धया कल्पस्थापनाकरणम् , अभिवर्धिते विंशत्या दिनैः पर्युषणाविधानकल्पः, तथा निशीथचूर्णादिप्रोक्तः पर्युषणायाः पश्चात् पञ्चकपरिहाणिकल्पः, एतत् कल्पत्रयं श्रीवीरनिर्वाणात् त्रिनवतिसमधिकनवशतप्रमाणे (९९३) वर्षे श्रीसंघाझया गीतार्थपूर्वाचार्यैः विच्छेदं प्रापितम् , एतदवे च पूर्वदर्शितगाथारहस्यम् । ततश्च संप्रत्यपि समागते समधिके मासे विंशत्या दिनैः पर्युषणाकल्पः'न साधयितुं शक्यः, जिनकल्पस्येव तस्य विच्छिन्नत्वात् , । किञ्च, जैनसिद्धान्तटिप्पणाऽभावे लौकिकटिप्पणके श्रावणे भाद्रपदे वा वृद्धे कुत्र विधातव्या पर्युषणा इति पृच्छतः शिष्यस्य चित्तं समाहितुं गुरुः प्राह-"जैनसिद्धान्तटिप्पणकानुसारेण यतस्तत्र युगमध्ये पौषः, युगान्ते च आषाढ एव वर्धते, नान्ये मासाः तट्टिप्पनकंतु अधुना सम्यग् न ज्ञायते, ततः पञ्चाशतैव दिनैः पर्युषणा युक्ता, इतिवृद्धाः" एवं कल्पसूत्रव्याख्यायां संदेहविषौषधि-कल्पलता-कल्पावचूरिकल्पान्तर्वाच्य-कल्पटिप्पणक-कल्पकिरणावली-दीपिका-सुबोधिकाद्यनेकग्रन्थेषु सुस्पष्टतया प्रतिपादितं न चैतत् केनाऽपि अतिक्रमितुमुचितम्, ततः जैनटिप्पणकविच्छेदात् पञ्चाशतैव दिनैः तत्कल्पकरणं युक्तियुक्तम् , शाखसंमतं च ज्ञेयम् । ततश्च जैनसिद्धान्तसम्मतटिप्पणकाऽभावे लौकिकमेव टिप्पणकमन्धेषु काण इव प्रतिष्ठापदवीं नेयम् , तद्नुसारेणच शान्तियुक्तं विधेया प्रवृत्तिः । तस्मिल्लौकिके टिप्पणके तु चैत्रायः
For Private and Personal Use Only