________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२४९॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
पर्युषणाशब्दो वार्षिककृत्यरूपः ज्ञातव्यः । ततश्च यदि विंशती दिनेषु, पञ्चाशति वा दिवसेषु, गृहिज्ञातनियतवासरूपा पर्युषणाऽपि वार्षिककृत्यरहिता वर्षास्थितिरूपा स्वीक्रियते तदा "सवीसइराए मासे गते पज्जोसवेइ' इत्यादिभावयुक्ता, निशीथचूर्णि - समवायाङ्ग-कल्पादिशास्त्रोक्ता, सर्वत्र पर्युषणायां लोचादिवार्षिककृत्यकरणरूपा पद्धतिः निष्फला स्यात् । न हि काऽपि जैनशास्त्रे गृहिज्ञातनियतवासरूपापर्युषणाकरणाऽनन्तर| दिनेऽन्यस्मिन् वार्षिककृत्यकरणं प्रख्यापितम्, तस्माद् यो दिवसो ज्ञातपर्युषणाविधानाय विहितः स एव दिवसः संवत्सरसंपूरकत्वाद् वार्षिक कृत्यकरणेनाऽपि अनुमत एव, अन्यथा विधानं तु न काऽपि दृष्टं श्रुतं वा । तथा विंशत्या ज्ञातपर्युषणाविधानाऽनन्तरं पश्चाद् व्यतीते मासे लोचादिवार्षिककृतिप्रवृत्तिरपि न काऽपि शास्त्रे दृष्टा । तथा पञ्चाशता दिनैर्वार्षिक कृत्यविधिः, न विंशत्या दिनैः, एवमपि युक्तिरहितत्वात् न काऽपि प्राचीन शास्त्र संलेखः । अत एव दिनानां विंशत्या, पञ्चाशता वा गृहिज्ञातनियतवासरूपा पर्युषणा प्रतिष्ठातव्या तत्रैव चन्द्राऽ-मिवर्धितापेक्षया वार्षिककार्याणि कर्तव्यानि इति तत्त्वम् । अत्र केऽपि "विंशत्या पर्युषणा गृहिज्ञातमात्रा कथयंति" तद् असत्यम् यतः - दशाश्रुतस्कंधसूत्रवृत्ति - शतपदी - कल्पलघुटीका - कल्पावचूरि-कल्पांतर्वाच्य - संदेहविषौषधि - कल्पलतादिशास्त्रे - अभिवर्द्धित संवत्सरे विंशत्या ज्ञात पर्युषणा वार्षिककृत्यरूपा उक्ता, तथैव चंद्रसंवत्सरे पंचाशद्दिनेऽपि ज्ञातपर्युपणायां वार्षिककृत्यकरणस्य नियमोऽस्ति, अत एव आषाढचातुर्मास्याम् वर्षास्थितिरूपायाम् अनियतवासरूपायामज्ञातपर्युषणायां वार्षिककार्याणि न भवति । तथा जैनटिप्पणकानुसारेण अभिवर्धितसंवत्सरे अपि चतुर्मासप्रमाणवर्षाकाले यदा विंशत्या दिनैः पर्युषणा भवेत् तदा पश्चाद् दिनानां शतं एवं तिष्ठति, तस्माद् योऽस्ति समवायाङ्गगतः पाठः, | स हि अधिकमासाऽभावापेक्षया ज्ञेयः न च अधिकमासे समागते स पाठः साफल्यं भजते, अधिकमासाऽभावरूपे वर्षे तस्य चरितार्थत्वात् । अन्यथा तु संप्राप्तेऽपि अधिकमासे - यदि तत्पाठानुसारेणैव प्रवृत्तिप्रवाहस्तदा निशीथभाष्य - चूर्णि - बृहत्कल्पभाष्य - चूर्णि-वृत्ति -कल्पनिर्युक्ति
For Private and Personal Use Only
कश्पडम
कलिका
वृतियुक्त.
व्यापा.
९
॥ २४९ ॥