________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गते गिहिणा तं करेंति । जत्थ अघिमासगो पडति बरिसे तं अभिवट्टियवरिसं भण्णति । जत्थ ण पडति तं चंदवरिसं । सो य अघिमासगो जुगस्स अंते मज्झे वा भवति । जइ अंते नियमा दो आसाढा भवन्ति, अह मज्झे दोपोसा। सीसो पुच्छति-कम्हा अभिवट्टियवरिसे वीसतिरातं, चंदवरिसे सबीसति-मासो ! उच्यते-जम्हा अभिवडियवरिसे गिम्हे चेव सोमासो अतिकतो, तम्हा बीसदिणा अणमिगहियं तं करेंति,इयरेसु तीसु चंदवरिसे सवीसतिमासो इत्यर्थः, इत्यादि । तथा-आसाढचाउमासियातो सविसतिराते मासे गते पज्जोसवेंति, तेसि सत्तरी दिवसा जपणो वासकालम्गहो भवति, कहं सत्तरी! उच्यते-चउण्डं मासाणं वीसुत्तरदिवससतं भवति, सवीसतिमासो पण्णासं दिवसा ते वीसुत्तरमज्झवो साधितो सेसा सत्तरी' इत्यादि । एवं भाष्य-चूर्णि-वृत्त्यादिषु सर्वत्र प्राचीनशास्त्रेषु स्थूलाक्षरेण 'मासवृद्धेरभावे चतुर्मासप्रमाणे वर्षाकाले विंशत्युत्तरदिवसशतं भवति, तत्र यदा पञ्चाशता दिवसैः पर्युषणा भवति तदा पश्चात् सप्ततिर्दिनानामवशिष्यते, तथैव जैनटिप्पणकानुसारेण यत्र पौषः, आषाढो वा वर्धते तत्र यदा विंशत्या दिनैः पर्युषणा भवति, तदा पश्चाद् जातिवमशत तिप्रत्येव । एतच तीर्थकर-गणधर-पूर्वधरादिभावपरंपरानुसारेण, विद्यमानाऽऽगमाद्यनुसारेण च समवसेयमिति ।।
तथा आषाढपूर्णिमातः आरभ्य पञ्चपञ्चदिनगणनायां चतुर्यु, दशसु पञ्चके वा, विंशतिदिने, पञ्चाशदिने वा यत्र गृहिज्ञातनियतवासरूपा पर्युषणा कार्तिकान्तं यावद् उक्ता, तत्रैव लोचादिवार्षिककार्याण्यपि ज्ञातव्यानि, यतः-जीवाभिगमवृत्ति-समवायाज-निशीथभाष्य-चूर्णिबृहत्कल्पभाष्य-चूर्णि-वृत्ति-स्थानाङ्गसूत्रवृत्ति कल्पसूत्रनियुक्ति-चूर्णि-वृत्त्यादिपञ्चाङ्गीशाखानुसारेण सूत्राऽऽाम–अर्थागम-तदुभयाऽऽगमभावपरंपरानुसारेण च पर्युषणाशब्दो हि खवाच्यमाद्ववं प्रख्यापयति, तथा च-एकस्तु वर्षास्थितिरूपः, द्वितीयश्च वार्षिककृत्यरूपः । यत्र च यावत् गृहिअज्ञात अनियतनिवासो भवति तत्र पर्युषणाशब्देन वर्षास्थितिर्ज्ञातव्या । यत्र तु गृहिज्ञातनियतवासों भवति तत्र
For Private and Personal Use Only