Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 508
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पप्रसंगः स्यात् , श्रीनवाङ्गीवृत्तिकारकैरभयदेवसूरिभिरपि श्रीसमवायांगसूत्रवृत्तौ अधिकमासाऽभावे पंचाशद्दिनापेक्षयैव भाद्रपदस्योक्तत्वाद्, अत एव संप्रति श्रावणवृद्धावपि भाद्रपदे पर्युषणाकथनमनुचितं शास्त्रप्रमाणरहितत्वाद् । ततोऽधिकमासस्यापि गणनीयत्वेन पंचाशतैव दिनैः द्वितीयआवणे पर्युषणा कार्या इति सिद्धान्तो व्यवस्थितः । नात्र कस्यापि वाचोयुक्तेः प्रवेशः, भाद्रपदप्रतिबद्धत्वख्यापकः पाठः चन्द्रसंवत्सरापेक्षः, अस्माकं तु सर्व कथनं सममिवर्धितसंवत्सरापेक्षम् । एतच सर्वत्र प्राचीनः स्वस्वग्रन्थे प्रसङ्गेन प्ररूपितम् अतः किमधिकं चर्चया? । पुनः केचिद आषाढवृद्धौ प्रथमाषाढस्य अधिकमासत्वेन गण्यते, तदसत्-यत:-सूर्यप्रज्ञप्तिसूत्रवृत्ति-चंद्रप्रज्ञप्तिसूत्रवृत्ति-ज्योतिष्करंडकपयन्नवृत्ति-लोकप्रकाशादिशास्त्रानुसारेण "सट्टीए अइयाए, हवइ हु अहिमासो जुगर्बुमि । बावीसे पचसए, हवा हु बीओ जुगतमि ॥१॥" पंचवार्षिकयुगस्य षष्टी पर्वसु (त्रिंशत्सु मासेषु ) अतिक्रांतेषु एकत्रिंशत्तमोद्वितीयपौषोऽधिको भवति तथा द्वाविंशत्युत्तरपर्वशते (एकपष्ठिर्मासानां) अतिक्रांते द्वापष्ठितमो द्वितीयो आषाढोऽधिको भवति, एवं सूर्यप्रज्ञप्तिवृत्त्यादिअनुसारेण द्वितीयाषाढस्य अधिकमासत्वं कथितं, परं न प्रथमस्य । अत एवं प्रथमाषाढस्य अधिकमासत्वकथनेन शास्त्रज्ञानशून्यत्वं सूचितं, द्वितीयाषाढस्य अधिकमासत्वकथनं आगमप्रामाण्यादस्ति । तथा जिनेन्द्रप्रवचनसिद्धान्तेऽधिकमासस्य, स्वाभाविकमासस्य वा दिनगणनायां तथैव मुहूर्तातीतलोकोतरधार्मिककार्यकरणवेलायां वा त्रयोदशचंद्रमासात्मकस्य अभिवद्धितसंवत्सरस्य उक्तत्वेन कस्यापि मासस्य न्यूनाधिकत्वेन मित्रता नास्ति । तथा प्रथमाषाढे गृष्मर्तुत्वाद् अभिवद्धितसंवत्सरस्स, गृष्मकालस्य च संपूर्णता न भवति किंतु द्वितीयाधिकाषाढे एव संवत्सरस्य, युगस्य, गृष्मकालस्य च संपूर्तिर्जायते। तेन स्वाभाविकं पूर्वापाढं त्यक्त्वा द्वितीये पर आषाढे चातुर्मासिकप्रतिक्रमणं क्रियते तदा न कोपि दोषप्रसंगः । किञ्च द्वितीय आषाढे चातुर्मासिकप्रतिक्रमणवद् संप्रति द्वितीयभाद्रपदे पर्युषणाराधनं न भवति, अशीतिदिनप्राप्तिदोषप्रसंगात् । किन्तु पूर्वोक्तशास्त्रप्रमाणानुसारेण पंचाशदिनैः प्रथमभाद्रपदे । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577