________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पप्रसंगः स्यात् , श्रीनवाङ्गीवृत्तिकारकैरभयदेवसूरिभिरपि श्रीसमवायांगसूत्रवृत्तौ अधिकमासाऽभावे पंचाशद्दिनापेक्षयैव भाद्रपदस्योक्तत्वाद्, अत एव संप्रति श्रावणवृद्धावपि भाद्रपदे पर्युषणाकथनमनुचितं शास्त्रप्रमाणरहितत्वाद् । ततोऽधिकमासस्यापि गणनीयत्वेन पंचाशतैव दिनैः द्वितीयआवणे पर्युषणा कार्या इति सिद्धान्तो व्यवस्थितः । नात्र कस्यापि वाचोयुक्तेः प्रवेशः, भाद्रपदप्रतिबद्धत्वख्यापकः पाठः चन्द्रसंवत्सरापेक्षः, अस्माकं तु सर्व कथनं सममिवर्धितसंवत्सरापेक्षम् । एतच सर्वत्र प्राचीनः स्वस्वग्रन्थे प्रसङ्गेन प्ररूपितम् अतः किमधिकं चर्चया? । पुनः केचिद आषाढवृद्धौ प्रथमाषाढस्य अधिकमासत्वेन गण्यते, तदसत्-यत:-सूर्यप्रज्ञप्तिसूत्रवृत्ति-चंद्रप्रज्ञप्तिसूत्रवृत्ति-ज्योतिष्करंडकपयन्नवृत्ति-लोकप्रकाशादिशास्त्रानुसारेण "सट्टीए अइयाए, हवइ हु अहिमासो जुगर्बुमि । बावीसे पचसए, हवा हु बीओ जुगतमि ॥१॥" पंचवार्षिकयुगस्य षष्टी पर्वसु (त्रिंशत्सु मासेषु ) अतिक्रांतेषु एकत्रिंशत्तमोद्वितीयपौषोऽधिको भवति तथा द्वाविंशत्युत्तरपर्वशते (एकपष्ठिर्मासानां) अतिक्रांते द्वापष्ठितमो द्वितीयो आषाढोऽधिको भवति, एवं सूर्यप्रज्ञप्तिवृत्त्यादिअनुसारेण द्वितीयाषाढस्य अधिकमासत्वं कथितं, परं न प्रथमस्य । अत एवं प्रथमाषाढस्य अधिकमासत्वकथनेन शास्त्रज्ञानशून्यत्वं सूचितं, द्वितीयाषाढस्य अधिकमासत्वकथनं आगमप्रामाण्यादस्ति । तथा जिनेन्द्रप्रवचनसिद्धान्तेऽधिकमासस्य, स्वाभाविकमासस्य वा दिनगणनायां तथैव मुहूर्तातीतलोकोतरधार्मिककार्यकरणवेलायां वा त्रयोदशचंद्रमासात्मकस्य अभिवद्धितसंवत्सरस्य उक्तत्वेन कस्यापि मासस्य न्यूनाधिकत्वेन मित्रता नास्ति । तथा प्रथमाषाढे गृष्मर्तुत्वाद् अभिवद्धितसंवत्सरस्स, गृष्मकालस्य च संपूर्णता न भवति किंतु द्वितीयाधिकाषाढे एव संवत्सरस्य, युगस्य, गृष्मकालस्य च संपूर्तिर्जायते। तेन स्वाभाविकं पूर्वापाढं त्यक्त्वा द्वितीये पर आषाढे चातुर्मासिकप्रतिक्रमणं क्रियते तदा न कोपि दोषप्रसंगः । किञ्च द्वितीय आषाढे चातुर्मासिकप्रतिक्रमणवद् संप्रति द्वितीयभाद्रपदे पर्युषणाराधनं न भवति, अशीतिदिनप्राप्तिदोषप्रसंगात् । किन्तु पूर्वोक्तशास्त्रप्रमाणानुसारेण पंचाशदिनैः प्रथमभाद्रपदे ।
For Private and Personal Use Only