SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्र ॥२५२॥ www.kobatirth.org एव पर्युषणाराधनं युक्तियुक्तमस्तीति विद्वद्वर्यैर्बोध्यं । ननु – अधिकमासे विवाह - प्रतिष्ठादिशुभकार्याणि लोकाः न कुर्वन्ति, तदा पर्युषणा कथं भवेत् ! श्रुणु मुहूर्त्तनैमित्तिककार्याणि तु — पौषचैत्र योर्मलमासयोः, अधिकमासे, क्षयमासे, वृद्धितिथौ, क्षयतिथौ, क्षीण तिथित्रये, सूर्याचंद्रमसोर्ग्रहणे - गुरुशुक्रयोरस्तयोः हरिशयने ( चातुर्मासे ) त्रयोदशमासात्मके सिंहस्थे वर्षे, वैधृति - गंडांत-व्यतिपात भद्रादियोगेषु तथैव कतिपयतिथि - वार- नक्षत्रादियोगेषु न भवन्ति परं च दानशील तप- देवपूजन - गुरुवन्दन - सामायिक प्रतिक्रमण - पौषध- पाक्षिक – चातुर्मासिक- वार्षिकपर्युपणादीनि धार्मिककार्याणि तु मुहूर्त्तरहितानि लोकोत्तराणि सन्ति, अत एव तेषां सिंहस्थे चातुर्मासे - अधिकमासे - क्षयमासादिकेऽपि करणे न दोषः । जैनसिद्धान्ते मुहूर्त्तरहितानां धार्मिककार्याणां करणे सर्वत्र काले तीर्थंकराज्ञायाः समानतया उक्तत्वाद्, अधिकमासे पर्युषणाराधनस्य निषेधकरणे उत्सूत्रप्ररूपणादोपप्रसंगः स्यात्, अतो नात्मार्थिभिर्निषेधः कर्तव्यः । किंच यथा- जैनसिद्धान्ते मुहूर्त्तरहितानां धार्मिककार्याणां करणे अधिकमासस्य दिवसानि गणितानि, तथैव लौकिकधर्मशास्त्रे अपि तस्य दिवसानि गणितानि किंच श्रावण - पौष-चैत्र - वैशाखादिअधिकमाससद्भावे कल्याणकादि तपः कथं कर्तव्यं : तथैव तिथिक्षयवृद्धी पंचदशदिवसात्मक पाक्षिकक्षामणा कथं कर्तव्या ? तथा अधिकमाससद्भावे दशपक्षात्मकपंचमासिकक्षामणा, षडविंशतिपक्षात्मकत्रयोदशमासिकक्षामणा कथं कर्तव्या ? इत्यादि सर्वेषां विषयाणां निर्णयो हेतुद्वारेण आगमद्वारेण च सविस्तरमस्मत्कृत “वृहत्पर्युषणानिर्णय" नामप्रन्येऽस्माभिरुक्तः इति स एव जिज्ञासुभिर्द्रष्टव्यः । इति निवेदयते श्रीमत्सुमतिसागरोपाध्यायानां उघुशिष्यो मुनि - मणिसागरः, वीरनिर्वाण २४४४, विक्रम संवत् १९७५ कार्त्तियु कृष्ण तृतीया, भायखला जैनउपाश्रय - मुंबई. Acharya Shri Kallassagarsuri Gyanmandir For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥२५२ !!
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy