________________
Shri Mahavir Jain Aradhana Kendra
फ.स. ४३
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ वर्षाऽवग्रहमानरूपां द्वितीयां समाचारीं वदति
वासावासं पज्जोसवियाणं कप्पड़ निग्गंथाण वा, निग्गंधीण वा सबओ समंता सकोसं जोयणं उग्गह ओगिहित्ता णं चिट्टिउं अहालंदमवि उग्ग ॥ ९ ॥ वासावासं पज्जोसवियाणं कप्पड़ निग्गंथाण वा, निग्गंथीण वा सवओ समंता उक्कोसं जोयणं भिक्खायरियाए गंतुं, पडिनि
यत्तए ॥ १० ॥
अर्थ:-'वासावासे' अर्थाद् वर्षाकाले चतुर्मासीस्थितानां साधूनाम्, तथा साध्वीनां सर्वतो दिक्षु, विदिक्षुः समन्ताः च्छब्देन चतसृष्वपि दिक्षु क्षेत्राऽवग्रहम् आश्रित्य सक्रोशं योजनं मुत्कलं रक्षणीयम्, कालावग्रहेण - 'अहालंदमवि उग्गहे' यथालन्दमपि अवग्रहे एव स्थेयम्, परमवग्रहाइहिर्न स्थेयम् । 'लन्द'' स्तोककालमुच्यते, यावता कालेनभिन्नो हस्तः शुष्यति तावान् कालो जघन्यलन्द उच्यते, लन्दमनतिक्रम्य यथालन्दम्, अवग्रहाइहिर्न स्थातव्यम् अयं परमार्थः यत्र स्तोककालमपि साधुस्तिष्ठति ततः पञ्चक्रोशीत अधिकां भूमिं न व्रजति, उत्कृष्टलन्दम् उत्कृष्टकालं पञ्चाहोरात्रप्रमाणम्, जघन्यलन्दादुत्कृष्टलन्दं यावत्सक्रोशं योजनं मुत्कलम्, कारणविशेषात् पुनः कश्चित्साधुः रोगी स्वात्, गृहीतसंस्तारकः स्यात्, तद्वैयावृत्यकृत्कोऽपि न स्यात्, अथवा ग्लानस्यौषधादिकं वैद्यस्य
For Private and Personal Use Only