SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र all a २५३॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.. प्रश्नार्थम्, औषधाद्यानयनाय चत्वारि पञ्च योजनानि याति, आयाति च । तत्र कार्यसिद्धेः पश्चाजघन्यलन्द स्तोककालमपि तत्र न बसति । साधुः स्वस्थानाय चलति, न तत्रैव तिष्ठेत् । उत्कृष्टलन्दं पञ्चाहोरात्रप्रमाणमपि न तिष्ठति, अयं लन्दशब्दस्यार्थः॥यत्र वर्षाकाले चतुर्मासीं साधुस्तिष्ठति तन्त्र चतुरोऽवग्रहान् द्रव्य-क्षेत्र-कालभावरूपान् करोति । तत्र द्रव्यावग्रहस्य त्रयो भेदाः-सचित्ताऽ-चित्त-मिश्ररूपाः । सचित्ताऽवग्रहः-सामान्यशिष्य-शिष्यिण्यादिकं न दीक्षयति, पुनः कश्चित् संस्तारकदीक्षां गृह्णाति, तथा पुनः कश्चिच्छ्रद्धावान् राजा|ऽमात्यादयो वा दीक्षां गृह्णन्ति तदा तान् दीक्षयति । अचित्तद्रव्यावग्रहं वस्त्र-पात्रादिकं न गृह्णाति, मिश्रद्रव्यावग्रहमुपधिसहितं शिष्यं न दीक्षयति, अयं त्रिविधो द्रव्यावग्रहः । क्षेत्रावग्रहः-भिक्षाद्यर्थ साद्विक्रोशीम् याति, आयाति; सक्रोशं योजनम् ; कारणविशेषाञ्चत्वारि, पञ्च योजनानि याति आयाति, अयं क्षेत्रावग्रहः २। कालावग्रह:-भाद्रपदशुक्लपञ्चमीतः कार्तिकसितपूर्णिमां यावत् सप्ततिः (७०) दिनानि प्रमाणं जघन्यतः करोति, उत्कृष्टतश्च वर्षावासयोग्या-ऽन्यक्षेत्राऽभावाद् आषाढमासेन सह चत्वारो मासाः, मार्गशीर्षः कदाचिद् बहुवृष्टित्वाच षण्मासं यावत् कालाऽवग्रहं करोति, अयं कालावग्रहः । अथ भावावग्रहः-शेषकालात् चतुर्मास्यां क्रोधादिकषायाणां विवेको विधेयः, अष्ट प्रवचनमातरो विशेषेण साधुभिश्चतुर्मास्यां पालनीयाः, अयं भावावग्रहः ४। एतैश्चतुर्भिरवग्रहैर्विना लन्दप्रमाणकालमपि न स्थेयम् , अलन्दप्रमाणम्-प्रचुरप्रमाणं काल ||२५३॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy