Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 171
________________ गुरुतत्त्वसिद्धिः (४/२) पृ. २० पं. २१ तेषां चावश्यंभाविनः प्रमादजनिता दोषलवाः, यदि तैः साधुर्वर्जनीयस्ततः सर्वेषामपि परिहरणीयता समायातेत्येतदेव चेतस्याधाय सूत्रकारः प्राह १४८ कुसकुसीला तित्थं, दोसलवा तेसु नियमसंभवि । जड़ तेहि वज्जणिज्जो अवज्जणिज्जो तओ नत्थि ।। १३५ ।। 'जस्स हु जा तवदाणं, ता वयमेगंपि नो अइक्कमइ । एगं अइक्कमंतो, अइक्कमे पंच मूलेणं ।।' इति । बकुशकुशीला व्यावर्णितस्वरूपाः, तित्थंति भामा सत्यभामेति न्यायात् सर्वतीर्थकृतां तीर्थ संतानकारिणः संभवन्ति, अत एव दोषलवाः - सूक्ष्मदोषास्तेषु- बकुशकुशीलेषु नियमसंभविनः, यतस्तेषां द्वे गुणस्थानके प्रमत्ताप्रमत्ताख्ये अन्तर्मुहूर्त्तकालावस्थायिनी, तत्र यदा प्रमत्तगुणस्थानके वर्त्तते तदा प्रमादसद्भावादवश्यंभाविनः सूक्ष्मा दोषलवाः साधोः परं यावत् सप्तमप्रायश्चित्तापराधमापनीपद्यते तावत् स चारित्रवानेव ततः परमचारित्रः स्यात् । तथा चोक्तम् (५) पृ. २२ पं. २२ तदेवं बकुशकुशीलेषु नियमभाविनो दोषलवाः, यदि तैर्वर्जनीयो यतिः स्यादवर्जनीयस्ततो नास्त्येव, तदभावे तीर्थस्याप्यभावप्रसङ्ग इति ।।१३५।। अस्योपदेशस्य फलमाह - *** (६) पृ. २४ पं. १९ (धर्मरत्नप्रकरण) *** इय भावियपरमत्था, मज्झत्था नियगुरुं न मुंचन्ति । सव्वगुणसंपओगं, अप्पाणमि वि अप्पिच्छंता ।। १३६ ।। इति - पूर्वोक्तप्रकारेण भावितो - मनसि परिणामितः परमार्थो यथावस्थितपक्षो यैस्ते भावितपरमार्थामध्यस्था अपक्षपातिनो निजगुरुं-धर्माचार्यं मूलगुणमुक्तामाणिक्यरत्नाकरं न मुञ्चन्ति नैव व्युत्सृजन्ति सर्वगुणसंप्रयोगं - समग्रगुणसामग्रीमात्मन्यप्यपश्यन्तोऽनवलोकयन्त इति । । १३६ ।। (धर्मरत्नप्रकरण) (निशीथसूत्र ) संतगुणणासणा खलु, परपरिवाओ य होइ अलियं च । धम् य अबहुमाणो, साहुपदोसे य संसारो ।। ५४२९ ।। चरणं णत्थि त्ति एवं भणंतेहिं साधूहिं संतगुणणासो कतो भवति, पवयणस्स परिभवो कतो भवति, अलियवयणं च भणितं भवति, चरणधम्मे पलोविज्जंते चरणधम्मे य अबहुमाणो कतो भवति, साधूण य पदोसो कतो भवति, साधुपदोसे य णियमा संसारो वुड्ढितो भवति । । ५४२९ ।। ****

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260